________________
कल्पसून ॥१७६॥
PARK 5.5.15.S
लहाणं अहं पि आवरिया उवज्झच्या वाखाणं जाव पज्योर्विति तहा णं अम्हे वि वासाणं सवीसइराएः मासे विइते वासावास पजोसवेमो अंतरा वि अ से कप्पड फ्लोसवितए भी से nous सं रचणि उवायणावित्य ॥ ८ ॥
व्याख्या – जहा णमित्यादितो नो से कप्पइ तं स्याणं उत्रायणावित्तपत्ति पर्यन्तं सूत्रद्वयं, तत्र अन्तराऽपि च-अर्वागपि च कल्पते पर्युषितुं न कल्पते तां रजनीं भाद्रपद शुक्लपञ्चमीं उपाययावित्तए त्ति अतिक्रमितुं उप निवासे' इत्यागमिको 'कसं निवासे' इति गणसम्बन्धी वा धातुः, इह हि पर्युषणा द्विविधा गृहिज्ञाताज्ञातभेदात्, तत्र गृहिणामज्ञाता यस्यां वर्षायोग्यपीठफलकादौ यले कल्पोक्तद्रव्य क्षेत्रकालभावस्थापना क्रियते, सह चाषाढ पूर्णिमास्यां योग्यक्षेत्राभावे तु पञ्चपञ्चंदिनवृद्ध्या दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपञ्चदश्यामेवेति । गृहिज्ञाता तु द्वेधा सांवत्सरिककृत्यविशिष्टा गृहिज्ञातमात्रा च तत्र सांवत्सरिककृत्यानि - सांवत्सरप्रतिक्रान्ति १ लुञ्चनं २ चाष्टमं तपः ३ । सर्वार्हद्भक्तिपूजा च ४, सङ्घस्य क्षामणं मिथः ५ ॥ १ ॥ एतत्कृत्यविशिष्टा च भाद्रसित्पञ्चम्यां कालकाचार्यादेशाच्च साम्प्रतं चतुर्थ्यामपि जनप्रकटं कार्या, द्वितीया तु अभिवर्द्धितवर्षे चतु र्मासकदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स्म इति पृच्छती गृहस्थानां पुरो वदन्ति तत्तु गृहिज्ञातमात्र - | मेव, तदपि जैनटिप्पनकानुसारेण यतस्तत्र युगमध्ये पोषो युगान्ते चाषाढ एवं वर्द्धते नान्ये मासाः तचाधुना
किरणाव०
॥१७६॥