________________
गतशय्यातरमपि लोचकरणेन साधर्मिकत्वं ख्यापयन्तं तत्रारोप्य च नमःस्थ एव स्थाने स्थाने चैत्यानि वन्दमानः स सुभिक्षां पुरिकापुरी प्राप, तत्र च बौद्धराज्ञा जिनचैत्येषु पुष्पप्रतिषेधे कृते पर्युषणापर्वणि सखेदं श्राद्धैर्विज्ञप्तो व्योनोत्पत्य माहेश्चयाँ पुर्या हुताशनाख्यदेवस्य बने पितृमित्रमारामिकं कुसुमप्रगुणीकरणार्थमादिश्य हिमवदद्रिं गतः, तत्र च श्रीदेव्या ववन्दे, तदनु प्राग्देवाार्थ विरचितमहापमं तदर्पितं हुताशनवनाविंशतिलक्षाणि पुष्पाणि चादाय विकुय॑ च विमानं प्राग्मित्रजृम्भकामरकृतगीतवादित्राद्यतुलोत्सवैरागत्साहन्मतं प्राभावयत्, ततो नृपतिरपि श्राद्धो बभूव, अन्यदा दक्षिणापथे विहरन् श्रीवज्रः श्लेष्मप्रकोपे भोजनादनुग्रहणाय कर्णे स्थापितशुण्ठ्याः प्रतिक्रान्तिमुखपोतिकाप्रतिलेखनावसरे पतने स्वप्रमादमवगम्यानशनार्थी सन् द्वादशाब्दं दुर्भिक्षं विभाव्य 'लक्षमूल्यौदनाशिक्षा, यत्राहि त्वमवाप्नुयाः । सुभिक्षमवबुद्ध्येथा-स्तदुत्तरदिनोषसि ॥१॥ इत्युक्त्वा वज्रसेनाभिख्यं खशिष्यमन्यत्र व्यहारयत् खान्तिकस्थसाधूंश्च दुर्भिक्षे भिक्षामलभमानान् विद्यापिण्डेन कियदिनानि भोजयित्वा संविग्नान् पञ्चशतशिष्यान् सहादायानशनार्थ वार्यमाणमप्यतिष्ठन्तं क्षुलं कथमपि विप्रतार्य गिरिमारोहत्, स च मा भूद् गुरूणामप्रीतिरिति गिरेमूल एव तप्तशिलातलेऽनशनं कृत्वा खरलंकृतवान् । देवैस्तु तन्महिमानं क्रियमाणं दृष्ट्वा साधवोऽत्यन्तं स्थिरीभूताः, तत्र च मोदकादिभिर्निमत्रयन्त्या मिथ्याग्देव्या अप्रीति विज्ञायान्यासन्नगिरौ गत्वाऽनशनेन दिवं प्रापत्, ततः शक्रेण सरथेन गिरेः प्रदक्षिणीकरणात् रथावर्तेति नामाजनि, तरूणां च नमनादद्यापि तरवो नम्रीभूता एव जायन्ते, तत्र च दशमपूर्वं तुर्य संहननं च व्युच्छिन्नं, तदनु च श्रीवज्रसेनः सोपारके जिनदत्त