________________
कल्पसूत्र ० ॥ १७२ ॥
पालनकस्थ एवैकादशाङ्गान्यध्यैष्ट, ततस्त्रिवार्षिकः सन् मात्रा राजसमक्षं विवादेऽनेकसुखभक्षिकादिभिर्लोभ्यमानोSपि पितृसाध्वर्पितं रजोहरणमेवाग्रहीत्, ततो माताऽपि प्रवत्राज शिशुरप्यष्टवर्षान्ते । एकदा तस्य पूर्वभववयस्यैजृम्भकैरुज्जयिनीमार्गे वृष्टिनिवृत्तौ कूष्मांडभिक्षायां दीयमानायामनिमेषत्वादिना देवपिण्डावगमेऽग्रहणे तुष्टैस्तैर्वैक्रियलब्धिर्दत्ता, पुनस्तथैवान्यदा घृतपूरैः परीक्षायां नभोगमनविद्यापि, अथैकदा वज्रमुनिर्गुरुषु वहिर्भूमौ साधुषु तु विहर्त्तुं गतेषु साधुवेष्टिकामध्यस्थितस्तासां वाचनां दातुमारेभे, गुरवस्तद्व्यतिकरं विज्ञायान्येषां तदज्ञापनाय वज्रो वो वाचनाचार्य इत्यादिश्य ग्रामं गतवन्तः, ततस्तेषां विनीतानां वाचनां ददौ ते च तदेकवाचनया तावत्पेतुर्यावद् गुरुभ्यो नानेकवाचनाभिरपीति, तेऽन्योन्यमभ्यधुर्यदि गुरवस्तत्र विलम्बन्ते तदा वज्रान्तिके शीघ्रं श्रुतस्कन्धः समाप्यते, ततो गुरुष्वागतेषु स प्रागपठिते च श्रुतेऽध्यापिते श्रीभद्रगुप्ताचार्यान्तिके दश पूर्वाण्यधीते स्म, ततः सम्प्रा| ससूरिपदः पाटलीपुरप्रवेशक्षणे मा भूद्दिव्यरूपाक्षेपान्नगरक्षोभ इति शङ्कया शक्त्या सङ्क्षिप्तरूपः क्षीराश्रवलन्ध्या राजादीनां धर्मोपदेशं दिदेश । द्वितीयेऽह्नि न प्रभोर्गुणानुरूपं रूपमिति पौरालापं श्रुत्वा विकुर्वितसहस्राजस्थः खाभाविकरूपेण धर्ममुपदिशन्नखिलानपि तान् विस्मापितवान् । तत्र च धनश्रेष्ठितनया रुक्मिणीनाम्नी साध्वीभ्यः प्राविख्यातगुणानुरागिणी सती कोटिधनसहिता पित्रा प्रदीयमानाऽपि प्रबोध्य प्रत्राजिता, अत्र कविः - "मोहा - ब्धिधुंलुकीचक्रे, येन बालेन लीलया । स्त्रीनदीस्नेहपूरस्तं, वज्रर्षि प्लावयेत्कथम् ॥ १ ॥” ततः स्वामिना पदानुसा| रिलब्ध्या श्रीआचाराङ्गमहापरिज्ञाध्ययनान्न भोगविद्या उद्द, एकदोत्तरस्यां दुर्भिक्षे श्रीस पट्टे संस्थाप्य चारिग्रहणार्थ
किरणाव०
1120011