SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ "अस्त्येका सान्वर्था चन्द्रकान्ता नाम नगरी, तस्यां च वशीकृतानेकराजो राजा विजयसेनः, वणिङ्मुख्यस्तु सश्रीकः श्रीकान्ताख्यः, तस्य च श्रीसखीनाम्नी भार्या, तथा चोपचाराणां शतैरेकः सुतः प्रसूतः । स च प्रत्यासन्ने पर्युषणापर्वण्यष्टमं तपः करिष्याम इति कुटुम्बभाषितमाकर्ण्य सञ्जातजातिस्मृतिर्वालकः सन्नप्यष्टमं तपः कृतवान् । तदनु स्तन्यपानादिकमकुर्वन्तं तमवगम्य साश्रुनेत्रया मात्रा यथावत्सुतखरूपं पत्युर्निरूपितं, तेनाप्यनेकचिकित्सकैः कारितोपचारोऽपि स्तन्याद्यकुर्वन्नतुच्छ मूर्च्छामापन्नो हि, अमृतोऽपि मृत इत्यवधार्य धरायां निधि - रिव निक्षिप्तस्तदीयैः । इतश्वाष्टमतपःप्रभावात्प्रकम्पितासनो धरणेन्द्रोऽवधिना प्राग्भवादारभ्यास्य व्यतिकरं | विज्ञातवान् यदयं पूर्वभवे बाल्येऽपि मृतमातृको वणिगङ्गजो विमात्राऽल्पेऽप्यपराधे भूयः पराभूयमानो मित्राय वटतान्तं न्यवेदयत्, ततः प्राग्जन्मन्यकृततपस एवायं पराभव इति मित्रवचसा मानापमानौ संत्यज्य तपस्येव लीनः सन्नेकदा प्रत्यासन्नपर्युषणापर्वण्यष्टमं तपः करिष्यामि इति ध्यानपरायणस्तृणगृहे सुप्तः । इतश्चावाप्तावसरया विमात्रा प्रत्यासन्नप्रदीपनादग्निकणमादाय तत्र निक्षिप्तः । स च तेन तपोध्यानपरायण एवं सद्यो विपद्यापुत्रिणः श्रीकान्तस्य पुत्रत्वेनोत्पदे, तदनु जातजातिस्मृतिरष्टमतपसावाप्तमूर्च्छां मृत इति धिया निजकैर्भूमौ निक्षिप्तः, अथ च यावन्न म्रियते तावत्संजीवयामीति ध्यात्वा धरणेन्द्रः स्वप्रभावादरक्षत् । श्रीकान्तस्तु पुत्रमृत्युश्रवणेन संजातहृदयसङ्घट्टः क्षण| यात्रादेव मृत्युमाप, ततोऽपुत्रिणो घनाऽऽदित्सया राज्ञः पुरुषानागतान् धरणेन्द्रो न्यषेधयत् । तदनु तैर्विज्ञतो राजापि | स्वयमागत्य धरणेन्द्रमुवाच किमिति प्रतिषेधयसि १ धरणेन्द्रोऽप्युवाच राजन् ! त्वमपि कथं गृह्णासि ? राजाऽवदत्
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy