SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ॥९॥ कल्पसूत्र०बलादयश्चारित्रकाक्षिणो नानुकम्पिता भवेयुः। तानिबन्धबद्धस्य तैरध्येसुमशक्यत्वात् । अत एव गणभृतोऽपि किरणाव लसुधर्मादयस्तेषां सुखाध्ययनादिप्रतिपत्त्यर्थमेवाल्पाक्षरं महार्थ चापि सिद्धान्तं प्राकृतनिवन्धबन्धुरमेव अथितवन्तः, उक्तञ्च-"बालस्त्रीमन्दमूर्खाणां नृणांचारित्रकाक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः सिद्धान्तःप्राकृतः कृतः ॥१॥" प्राकृत--2 रचनापि चतुरचेतसश्चेतश्चमत्करोति न त्वज्ञानावृतचेतसश्वेतोऽपि, उक्तश्च-"नेच्छन्ति प्राकृतं मूर्खा मक्षिका च-15 न्दनं यथा । क्षीरान्नं शूकरा यद्वद् घूका इव रविप्रभाम् ॥ १॥” इति । अथानधिकारिणा हि कृतं साङ्गमति कर्म नोक्तफलाव्यभिचारि भवतीत्यत्र वाचनायां श्रवणे च केऽधिकारिण इत्याकाङ्क्षायां मुख्यतः साधवः साध्व्यश्चाधिकारिणः, तत्रापि कालतो रात्री कृतोद्देशसमुद्देशादियोगानुष्ठानो वाचनोचितो वाचयति, तदितरे तु शृण्वन्ति, साध्वीश्रावणादिकारणे पुनर्निशीथचूायुक्तविधिना दिवापि तयोरधिकारः । सम्प्रति तु श्रीवीरनिर्वाणादशीत्य|धिकनवशत ९८० वर्षातिक्रमे कचिच्च त्रिनवतिनवशत ९९३ वर्षातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानन्दपुरे सभासमक्षं समहोत्सवं श्रीकल्पसूत्रं वाचयितुमारब्धम्, अतःप्रभृति चतुर्विधसकोऽप्यधिकारी श्रवणे, वाचनायां तूक्तलक्षणः साधुरेवेति दृश्यत इति बोध्यम् ॥ तथा सम्प्राप्ते पर्युषणापर्वण्यतुलफलाव्यभिचारिकल्पसूत्रश्रवणवचैत्यपरिपाटी १, समस्तसाधुवन्दनं २,सांवत्सरिकप्रतिक्रमणं ३, मिथः साधर्मिकक्षामणकं ४,अष्टमं तपश्चेति ५, पञ्च कृत्यान्यपि विधिविधेयानि । एतेषामपि कल्पसूत्रश्रवणवदवश्यकर्त्तव्यतापन्नत्वादभीष्टफलदातृत्वाव्यभिचाराच।। तत्राष्टमं तपो नागकेतुबद् विधेयम्, तथाहि 54XCOMSANCARNA SASRACC
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy