________________
क० ४२
| कुणालस्तन्नन्दनखिखण्डभोक्ता सम्प्रतिनामा भूपतिरभूत्, स च जातमात्र एव पितामहदत्तराज्यः, अन्यदा रथयात्रार्थागत श्री सुहस्तिसूरीन् दृष्ट्वा जातजातिस्मृतिरव्यक्तसामायिकस्य किं फलमिति ? पृच्छन् गुरुभिस्तत्फलं राज्यादीत्युक्ते जातप्रत्ययो दत्तोपयोगैस्तैः प्रतिबोधितः सन् सपादकोटिविम्बसपादको टिनवीनजिनभवनषटूत्रिंशत्सहस्रजीर्णप्रासादोद्धारपञ्चनवतिसहस्रपित्तल मयप्रतिमाऽनेकशतसहस्रसत्रशालादिभिर्विभूषितां त्रिखण्डामपि महीमक - रोत्, अनार्यदेशानपि करं मुक्त्वा पूर्वं साधुवेषभृत्स्ववण्ठप्रेषणादिना साधुविहारयोग्यान् खसेवकन्यान् जैनधर्मरतश्च चकार । तथा । वस्त्रपात्रान्नदध्यादि - प्रासुकद्रव्यविक्रयं । ये कुर्वन्त्यथ तानुर्वी-पतिः सम्प्रतिरूचिवान् ॥ १ ॥ साधुभ्यः सञ्चरद्भ्योऽग्रे, ढौकनीयं खवस्तु भोः । ते यदाददते पूज्या स्तेभ्यो दातव्यमेव तत् ॥ २ ॥ अस्मत्कोशाधिकारी च, छन्नं दास्यति याचितम् । मूल्यमभ्युल्लसलाभं समस्तं तस्य वस्तुनः ॥ ३ ॥ अथ ते पृथिवीभर्त्तु-राज्ञया तद्व्यधुर्मुदा । अशुद्धमपि तच्छुद्ध-बुद्ध्या त्वादायि साधुभिः ॥ ४ ॥
थेरस्स णं अज्जसुहत्थिस्स वासिसगुत्तस्स अंतेवासी दुवे थेरा सुट्टियसुप्पडिबुद्धा कोडियकाकंद्गा वग्घावच्चसगुत्ता | थेराणं सुट्टियसुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्धावच्चसगुत्ताणं अंतेवासी थेरे अज्जइंददिने कोसियगुत्ते । थेरस्स णं अजइंददिन्नस्स कोसियगुत्तस्स अंतेवासी थेरे अज्जदिने गोअमसगुत्ते । थेरस्स णं अज्जदिण्णस्स गोयमसगुत्तस्स अंतेवासी