________________
कल्पसूत्र०
चिप्रयोगान्मृते च पितरि नन्दराज्ञाऽऽकार्य मत्रिमुद्रादानायाभ्यर्थितः सन् पितृमृत्यु चित्ते विचिन्त्य खयं दीक्षा-15 किरणार
मादत्त, पश्चाच श्रीसम्भूतिविजयान्तिके व्रतानि प्रतिपद्य तदादेशपुरस्सरं कोशागृहे चतुर्मासकमस्थात् , तदन्ते ॥१६॥
बहुहावभावविधायिनीमपि तां प्रतिबोध्य गुरुसमीपमागतः सन् तैः'दुष्करकारक दुष्करकारक' इति सबसमक्षं प्रोचे, तद्वचसा च पूर्वायाताः सिंहगुहाहिबिलकूपकाष्ठस्थायिनी मुनित्रयी दूना, तेषु सिंहगुहास्थायी मुनिमत्सरेण गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतो, दृष्ट्वा च तां दिव्यरूपां चलचित्तोऽजनि, तदनु तया नेपालदेशानायितरत्नं क्षाले क्षिप्त्वा प्रतिबोधितः सन्नागत्योवाच-स्थूलभद्रः स्थूलभद्रः, स एकोऽखिलसाधुषु । युक्तं दुष्करदुष्कर-कारको गुरुणा जगे ॥१॥" यतः-"स्मरसिंहगुहा गेहं, दृष्टी दृष्टीविषाहिभूः । चित्रशाला कूपपट्टः, कोशायास्त्रिष्वसौ स्थितः॥१॥ पुप्फफलाणं च रसं, सुराइ मंसस्स महिलिआणं च । जाणता जे विरया,
ते दुक्करकारए वंदे ॥२॥" कोशाऽपि तत्प्रतिबोधिता सती खकामिनं पुजार्पितेर्वाणदूरस्थानलुम्ब्यानयनगर्वितं है रथकारं सर्षपराशिस्थसूच्यग्रपुष्पोपरि नृत्यन्ती प्राह-न दुक्करं अंबयलुंबितोडणं, न दुक्करं सरिसवनचिआए ।
तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥१॥' कवयोऽपि-गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हर्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकटालनन्दनः ॥२॥
| ॥१६॥ योऽनौ प्रविष्टोऽपि हि नैव दग्धः, छिन्नो न खड्गाग्रगतप्रचारः। कृष्णाहिरन्धेऽप्युषितो न दष्टो, नाक्तोऽअना* गारनिवास्यहो यः॥३॥ वेश्या रागवती सदा तदनुगा षड़ी रसैर्भोजनम् , शुभ्रं धाम मनोहरं वपुरहो नब्यो
545454545555