________________
53ॐॐॐॐ
व्याख्या-अजजसमहाऔ अग्गों एवं थेरावली भणियेत्यादितो अज्जतावसी साहां निग्गया इति पर्यन्तम् , तत्र अजमबाहु त्ति प्रतिष्ठानपुरे वराहमिहिरभद्रबाहुद्विजौ बान्धवौ प्रव्रजितौ, भद्रबाहोराचार्यपददाने रुष्टः सन् , वराहो द्विजवेषमादृत्य वाराहीसंहितां कृत्वा निमित्तैर्जीवति वक्ति च लोके क्वाप्यरण्ये शिलायामहं सिंहलग्नममण्डयं शयनावसरे तदभञ्जनस्मृत्या लमभक्त्या तत्र गमने सिंहं दृष्ट्वाऽपि तस्साचो हस्तप्रक्षेपण लग्नभङ्गे सन्तुष्टः सूर्यः प्रत्यक्षीभूय खमण्डले नीत्वा सर्व ग्रहचारं ममादर्शयदिति । अन्यदा राज्ञः पुरो लिखितकुण्डालके वातप्रयोगात्पलात्रुटिमज्ञात्वा द्विपञ्चाशत्पलमानमत्स्यपातकथने श्रीभद्रबाहुभिस्तदन्ते पातः साढेकपञ्चाशत्पलमानं चावादि । तथान्यदाऽनेन नृपनन्दनस्य शतवर्षायुर्वर्त्तते, एते न व्यवहारज्ञा इति जैननिन्दायां च क्रियमाणायां गुरुभिः सप्तदिनर्बिडालिकातो मृतिरूचे, तदनु राज्ञा पुरात्सर्वबिडालिंकाकर्षणेऽपि ससमदिने स्तन्य पिवतो बालस्योपरि बिडालिकाकारवार्गलापातेन मरणे गुरूणां प्रशंसा तस्य च निन्दा सर्वत्र प्रससार । ततः कोपान्मृत्वा व्यन्तरीभूयाशिवोत्पादनादिना सचमुपसर्गयन् श्रीगुरुभिरुपसर्गहरस्तोत्रं कृत्वा न्यवारि । उक्तं च-"उवसग्गहरं थुत्तं, काऊणं जेण संघकल्लाणं । करुणापरेण विहिअं, स भहवाहू गुरू जयउ ॥१॥"
थेरस्स णं अजसंभूइविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अजथूलभदे गोयमसगुत्ते । व्याख्या-अजथूलभदे ति पाटलीपुरे शकटालमत्रिपुत्रः श्रीस्थूलभद्रो, द्वादशवर्षाणि कोशागृहे स्थितः,
वररु