________________
43685
यदिवस एवामृतरसरसोपमा पापसमिक्षेति । यतः-"संवच्छरेण मिक्खा, लद्धा उसहेण लोगनाहेण । सेसेहि विवादिषसे, लद्धाओ पहमभिक्खाजो ॥ १ ॥ उसमस्स उ पारणए, इक्खुरसो आसि लोगनाहस्स । ससाणं परमाणं, अमयरसरसोवमं आसी ॥२॥" अन्यदाच खामी बहलीदेशे तक्षशिलानगरी प्रासा, सन्ध्यायां
चोद्यानपालकेच बाहुबलिनो निवेदने कृते प्रातः सर्वद्ध्या तातं वन्दिष्ये, इति रात्रि व्यतिक्रम्य प्रातः सर्वा सातत्र गतो भमवांश्चान्यत्र विहृतवान् । अष्ट्वा च भगवन्तं महतीमधृति विधाय यत्र भगवान् प्रतिमया तस्थौ,
तत्राष्टयोजनपरिमण्डलं पञ्चयोजनोच्छूयं सर्वरत्नमयं धर्मचकं चिह्नं चकार निर्यामकानां च सहस्रं तत्र सुमोच । एवं च क्रमेण जनपदेषु विहरन् विनीतां नगरी प्राप्तः, कियता कालेन विहृयेत्याह-एगं वाससहस्सं ति दीक्षाविनादारभ्य वर्षसहस्रं यावच्छमस्थकालस्तत्र प्रमादकालः सर्वसङ्कलितोऽप्यहोरात्रमेव । एवमेकस्मिन् वर्षेसहसा स्रोऽतिक्रान्ते तत्रागतस्य भगवतः केवलज्ञानमुत्पन्नम्, तस्मिन्नेव दिने भरतस्य राज्ञ आयुधशालायां चक्ररत्नोत्पत्तिः, युगपत् द्वयोनिवेदने विषमा खलु विषयतृष्णा महतामपि मतिमोहं कुरुते इति भरतश्चिन्तयति, द्वयोरपि पूजाहयोः प्रथमं किं तातमुत चक्र वा पूजयामीति चिन्तयन् चक्र तावदैहिकसुखहेतुः तातस्तु शिवदायकत्वात् परलोकानन्तानन्दहेतुरतस्वातं पूजयामि । यतस्ताते पूजिते चक्रमपि पूजितं भवेदिति विचिन्त्य भरतः सर्वा भगवन्तं वन्दितुं प्रवृत्तः । मरुदेवी तावद् भगवति प्रनजिते भरतराज्यश्रियं निरीक्ष्य प्रत्यहं भणति-'पृथिवीं प्रतिपालयन्त्यमी, भरतो बाहुबली परे सुताः । न तु कोऽपि करोति सक्थां, मम सूनोरिति
***ॐॐॐॐ
*