________________
किरणाप
कल्पपूत्र ॥१५४॥
"मो जनाः! सद्गतिलिप्सया एवं भिक्षा प्रदीयते"। लोक पृच्छति कथं भवता ज्ञातं यत्खामिनोऽप्येवं भिक्षा प्रदीयते, सोऽवक्-"जातिस्मृत्या मम तु खामिना सहाष्टमवसम्बन्धः पूर्वमासीत्"। कौतुकाजनः पृच्छति के तेऽष्टी भवाः, श्रेयांस आह-“यदा खामीशाने ललिताङ्गनामा देवस्तदानीमहं पूर्वभवे निर्नामिका नानी खयम्प्रभादेवी |१, ततः पूर्वविदेहे पुष्कलावतीविजये लोहार्गले नगरे भगवान् वज्रजस्तदानीमहं श्रीमती भार्या २, तत उत्तरकुरौ भगवान् युगलिकोऽहं युगलिनी ३, ततः सौधर्मे द्वावपि मित्रदेवौ ४, ततो भगवानपरविदेहे वैद्यपुत्रस्तदाऽहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रम् ५, ततोऽच्युवे कल्पे देवौ ६, ततः पुण्डरगिण्यां भगवान् वज्रनाभस्तदाऽहं सारथी ७, ततः सर्वार्थसिद्धविमाने देवौ ८, इह पुनर्भगवतः प्रपौत्र इति तेषां च स्वप्नानामिदं फलं यद्भमवतो भिक्षा दत्तेति" । एवं च श्रुत्वा सर्वोऽपि जन:-"भुवणं जसेण भयवं, रसेण भवणं, धणेण पडिहत्थो । अप्पा निरुवमसुक्खे, सुपत्तदा महग्पविकं ॥ १ ॥ रिसहेससमं पत्तं, निरवजं इक्खु-1 रससमं दाणं । सेअंससमो भावो, हविज जहमग्गिजं हुजा ॥२॥" इत्यादिवचोभिरभिनन्य खस्थानं गतः। श्रेयांसोऽपि यत्र स्थितो भगवान् प्रतिलाभितः तत्स्थानख पादराक्रमणं मा भवत्विति भक्त्या रनपीठं कारयित्वोभयसन्ध्यं पूजयति, विशेषतः प्रातःकाले पूजयित्वैव भुते । लोकोऽपि पृच्छति किमेतकम् ? श्रेयांस आह-आदिकरमण्डलकम् । ततो लोकेनापि यत्र यत्र भगवान् स्थितः, तत्र तत्र पीठं कृतम् । कालेनादिसपीठमिति संज्ञा जाता । एवं ऋषभखामिना संवत्सरेणेवरसभिक्षा लब्धा, शेषस्तु प्रयोविंशत्या जिनहिती
-CCESS
SAGAR54ऊर
॥१५४॥
G