________________
उन
कुम्भन सहागत आसीत्, तमेवेक्षुरसकुम्भमादायोपस्थितः श्रेयांसो भणति-भगवन् ! गृहाण योग्यामिमामिक्षरसभिक्षा, प्रसारय पाणी निस्तारय मामित्युक्ते कल्पते इति कृत्वा खामिनाऽपि पाणी प्रसारितो, निसष्टश्च तेन सर्वोऽपि रसः, न चात्र बिन्दुरप्यधः क्षरति किन्तूपरि शिखा परिवद्धेते। यतः-“माइजघडसहस्सा, अहवा मायंति सागरा सधे । जस्सेआरिसलद्धी, सो पाणिपडिग्गही होइ ॥१॥"त्ति अत्र कविघटना-"खाम्याह दक्षिणं हस्तं, कथं भिक्षा न लासि भोः । स प्राह दातृहस्तस्याधो, भवामि कथं यतः॥१॥ पूजाभोजनदानशान्तिककलापाणिग्रहस्थापना-चोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् ।" इत्युक्त्वा दक्षिणकरे स्थिते वामो ब्रूते-“वामोऽहं रणसम्मुखाकूगणनावामानशय्यादिकृत् , धूतादिव्यसनी वसौ स तु जगौ चोक्षोऽस्मि न त्वं शुचिः॥२॥" ततः-"राज्यश्रीभवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः, सन्तुष्टोऽस्मि गृहाण दानमधुना तन्वन् दयां दानिषु॥ इत्यब्दं प्रतिबोध्य दक्षिणकरं श्रेयांसतः कारयन् , प्रत्यक्षुरसेन पूर्ण ऋषभः पायात्स वः श्रीजिनः॥३॥श्रेयांसस्य दानावसरे-नेत्राम्बुधारा वाग्दुग्ध-धारा धारा रसस्य च । स्पर्द्धया वर्द्धयामासुः, श्रीधर्मद्रं तदाशये ॥४॥ ततस्तेन भगवान् सांवत्सरिकतपःपारणकं कृतवान् । तत्र पञ्च दिव्यानि प्रादुर्भूतानि, तद्यथा-वसुधारावृष्टिः १, चेलो
क्षेपः २, ब्योनि देवदुन्दुभिः ३, गन्धोदककुसुमवृष्टिः४, आकाशेऽहोदानमिति घोषणं चेति ५, तत्र वसुधाराप्रमाण| "अद्धत्तेरसकोडी, उक्कोसा तत्थ होइ वसुहारा । अद्धत्तेरसलक्खा, जहनिआ होइ वसुहारा ॥१॥" ति ततो देवसन्निपातं दृष्ट्वा राजप्रमुखोऽखिलोऽपि लोकस्ते च तापसाः श्रेयांसभवनमुपागताः । तान् श्रेयांसः प्रज्ञापयति,
वा । तत्र पञ्च दाहोदानमिति पाना मुहारा ॥१॥
55AGROCES
यति, I