________________
कल्पसूत्र०
॥१५३॥
प्रणम्य पुष्पक विमानारूढौ कच्छमहाकच्छौ प्रति भगवत्प्रसादं ज्ञापयन्तौ विनीतां नगरीं प्रविश्य भरतस्य राज्ञस्तमर्थ निवेद्य खजनं परिजनं चादाय वैताढ्ये नगे दक्षिणस्यां नमी उत्तरस्यां च विनमीति तौ तथैव कृत्वा विहरतः स्मेति । भगवांश्चान्नपानादिदानाकुशलैः समृद्धिभाग्भिर्मनुष्यैर्वस्त्राभरणगन्धमाल्यालङ्कारकनकमणिमौक्तिकासनशयनयानवाहनकन्याप्रभृतिप्रशस्तवस्तुभिर्निमन्यमानोऽपि योग्यां भिक्षामलभमानोऽदीनमनाः सन् गोचर्यां मिक्षार्थं भ्रमन् यावत् कुरुजनपदे गजपुरे नगरे प्रविष्टः । तत्र च श्री आवश्यकवृत्त्यनुसारेण 'बाहुबलिसुतः सोमप्रभस्तस्य पुत्रो युवराजा श्रेयांसः' श्री आवश्यकचूर्णौ तु 'भरहस्स पुत्तो सेजंसो, अण्णे भणंति, बाहुबलिस्स सुतो सोमप्यभो सेअंसो अ' त्ति, स च श्रेयांसः खप्ने मया श्यामवर्णो मेरुरमृतकलशेनाभिषिक्तोऽतीव शोभितवान्, सुबुद्धिनामा नगर श्रेष्ठी पुनः सूर्यमण्डलात् स्रस्तं किरणसहस्रं श्रेयांसेन तत्र घटितं ततस्तदतीव शोभाभागू, राजाऽपि स्वने महापुरुष एको रिपुबलेन युध्यमानः श्रेयांससाहाय्याज्जयी जात, इत्यद्राक्षीदिति, त्रयोऽपि प्रातरन्तः सर्भ संभूय परस्परं निजं निजं खप्नं न्यवेदयंस्ततो राज्ञा भणितं 'कोऽपि श्रेयांसस्य महान् लाभो भावी' इति निर्णय विसर्जितायां पर्षदि श्रेयांसोऽपि खभवने गत्वा गवाक्षस्थः खामी न किञ्चिल्लातीति जनोत्कलिका कोलाहलमाकलय्योत्थितः खामिनं प्रविशन्तं प्रेक्षमाणश्चिन्तयति मया कापीदृशं नेपथ्यं दृष्टपूर्व यादृशं मे पितामहस्येति जातिमस्मार्षीत् । अहो अहं भगवतः पूर्वभवे सारथी तेन समं तीर्थकरसमीपे प्रव्रज्यामात्तवान्, तत्र वज्रसेनेन तीर्थकृता कथितमासीत् 'यदयं वज्रनाभो भरतक्षेत्रे प्रथमतीर्थकृद्भावीति' स एष भगवान्, तदानीमेव तस्यैको मनुष्यः प्रधाने क्षुरस
किरणाव०
॥१५३॥