SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० किरणाव. ॥८॥ नैवंविधमाहात्म्यस्यानेकांतिकत्वं शंकनीयम् , नच बहुविधव्ययसाध्यं प्रासादप्रतिमाप्रतिष्ठायनुष्ठानं व्युदस्य सुखसा- ध्यतया पर्युषणाकल्पसूत्रश्रवणमात्रेणैव संतोष्टव्यम्, यतो यथावसरमशेषधर्मानुष्ठानेष्यप्यनिगृहितबलवीयस्य सम्यगदृष्टेरेव कालादिसमग्रसामग्रीसत्रीचीनतया भव्यत्वपरिपाकवशादभीष्टफलसिद्धावुकमाहात्म्याव्यभिचारात् । नहि लोकेपि कृषिकर्मादौ कारणभूतादपि बीजात् पृथ्वीपाथःपवनादिसामग्रीशून्यादडरोत्पत्तिदृष्टा श्रुता वा ॥ अन्यथा । "इक्कोवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्त । संसारसागराओ, तारेइ नरं व नारिं वा ॥१॥" इत्याद्याकर्णनोवीकृतकर्णेन कल्पसूत्रश्रवणमप्युपेक्षणीयं स्यात्तदपेक्षया वीरनमस्कारस्य सुखसाध्यत्वात् , तस्मात् सामग्र्यव बलवती, अत एवोत्सूत्राद्युपहतस्थानेकशः कल्पसूत्रश्रवणेप्यनन्तसंसारतादवस्थ्यं तस्य सामग्र्यभावात् । सामग्री प्रवचनाविरोधेनैव भवति, प्रवचनाविरोधस्तूत्सूत्राद्युपहतस्यासंभवी तस्मात् खल्पमपि धर्मानुष्ठानं तदितरधर्मानुष्ठानाविरोधेनैव श्रेयोबीजं नेतरत्, यतः-"आराध्येनाविरोधेन खल्पं यत्सुकृतं कृतम् । तत्सर्व श्रेयसां बीजं वैपरित्यं विपर्यये ॥ १ ॥" तदपि धर्मानुष्ठानं सामयन्तःपातितारतम्याघध्यवसायविशेषितं सत्तत्तदनुरूपकार्यजनकं प्रतिप्राणिभिन्नमिति न किञ्चिदनुपपन्नम्, एतेनाल्पत्वादिविशेषितशङ्कापि व्युदस्ता, यतः शुद्धश्रद्धानसध्यानादिकारणगुणोत्कर्षापकर्षादेरचिन्त्यमाहात्म्यवशात् केषांचिदान्तमॊहूतिकेनापि चारित्रेण केवलोत्पत्तिः अन्येषां पुनस्तथाविधयोग्यतावशात् अन्तर्मुहूर्तात् समयाद्याधिक्यगणनया यावद्देशोनपूर्वकोव्यापि । सामग्र्यनङ्गीकारे तु सम्यग्दृष्टेरिवोत्सूत्राघुपहतदृष्टेरपि किञ्चिद् धर्मानुष्ठानमवलंब्य सदृशफलसिद्धी सिद्धं प्रवचनेऽत्यन्तमासमञ्जस्यम्,
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy