________________
कल्पसूत्र ॥१४९॥
किरणाव
RECER-5555555
व्यवस्थापितवान् । तत्रोपदण्डकारित्वादुना-आरक्षकस्थानीयाः १, भोगार्हत्वाद्भोगा-गुरुस्थानीयाः २, समानवय- स इतिकृत्वा राजन्या-वयस्वस्थानीयाः ३, शेषप्रधानप्रकृतितया क्षत्रिया ४ श्च । तदानीं च कालपरिहान्या ऋषभकुलकरकाले कल्पद्रुमफलभोगाभावेन ये इक्ष्वाकास्ते इक्षुभोजिनः शेषास्तु प्रायः पत्रपुष्पफलभोजिनोऽप्रेरभावाचापकशाल्याधौषधीभोजिनचासन् । कालानुभावात् तदजीर्णे खल्पं खल्पतरं च भुक्तवन्तः तस्याप्यजीर्णे तैर्विज्ञतो भगवानाह-हस्ताभ्यां धृष्ट्वा त्वचं चापनीय भुंग्ध्वं' इति निशम्य तथैव कृते कियता कालेन ता अपि ते न जीर्णवन्तः, पुनर्विज्ञप्तभमबहुपदेशेन प्रवालपुटे तिमिततन्दुलभोजिनः, पुनरप्यजीर्णे कियन्तमपिकालं हस्ततलपुटे |संस्थाप्य, पुनरप्यजीर्णे कक्षासु खेदयित्वा, एवमप्यजीणे हस्ताभ्यां घृष्ट्वा पत्रपुटे च तीमित्वा, एवमप्यजीर्णे पुनर्हस्ततले मुहूर्त संस्थाप्येत्यादिभङ्गकभोजिनो बभूवांसः। एवं च सत्येकदा परस्परं द्रुमघर्षणान्नवोत्थितं प्रवृद्धज्वालावल्या समुज्वलन्तं भूतलावलग्नं तृणादिकलापं कवलयन्तमग्निमुपलभ्याभिनवरत्नबुद्ध्या ग्रहणाय प्रसारितपाणयो दखमाना भीताः सन्तो भगवन्तं यथावद् व्यतिकरकथनेन विज्ञपयामासुः। भगवता चामेरुत्पत्ति विज्ञाय 'भो युगलिका उत्पन्नोऽग्निरत्र च शाल्याद्यौषधीनिधाय भुंगध्वं, यतस्ताः सुखेन जीर्यन्ति इत्युपाये कथितेऽप्यनभ्यासात्सम्यगुपायमलभमानास्ता औषधीरमौ प्रक्षिप्य कल्पद्रोरिव फललिप्सया पुरः स्थित्वा पश्यन्ति, अमिना च ताः सर्वतो दह्यमाना दृष्ट्वा अहो अयं पापात्मा वेताल इवातृप्तः खयमेव सर्व भक्षयति, नास्मान् प्रति किमपि प्रयच्छतीत्यतोऽस्यापराधं भगवते विज्ञाप्य शिक्षा दापयिष्याम इति बुद्ध्या गच्छन्तः पथि भगवन्तमपि हस्तिस्कन्धारूढम
C+%AA-CESCHECCANCCA-COCACA
॥१४९॥