SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ व्याख्या-उसमेणमित्यादितः पढमतित्थंकरे इ वेति पर्यन्तम्, तत्र इकारः सर्वत्र वाक्यालकारे पढमराय त्ति प्रथमराजा स चैवं-कालानुभावात्क्रमेण प्रचुरप्रचुरतरकषायोदयात्परस्परं विवदमानानां युगलिकाना दण्डनीति|स्तावत् विमलवाहनचक्षुष्मत्कुलकरकालेऽल्पापराधित्वाद्धकाररूपैवासीत् , यशखिनोऽभिचन्द्रस्य च कालेऽपराध ख्याल्पेऽनल्पे चापराधे हकारमकारावेवाभूतां,प्रसेनजिन्मरुदेवनाभिकुलकरकाले च पुनरप्यपराधवृद्धौ क्रमेण जघन्या& द्यपराधिनां हकारमकारधिक्कारा अभूवन् । एवमपि नीयतिक्रमणे ज्ञानादिगुणाधिकं भगवन्तं विज्ञाय भगवनिवेदने कृते खाम्याह-'नीतिमतिक्रमतां दण्डं सर्व नरेश्वरो राजा करोति, स चामात्यारक्षकादिवलयुतोऽनतिक्रमणीयाज्ञो भवति । एवमुक्ते तैरूचे-'अस्माकमपीडशो राजा भवतु ।' खाम्याह 'याचध्वं राजानं कुलकरं प्रति' तैर्याचितो नाभिर्भो भवतां ऋषभ एव राजेत्युक्तवान् । ततस्ते राज्याभिषेकनिमित्तमुदकानयनाय सरः प्रति गतवन्तः, तदानीं च प्रकम्पितासनः शक्रो जीतमिति धिया समागत्य मुकुटकटककेयूरकुण्डलाभरणादिविधिपुरस्सरं राज्येऽभिषिञ्चति स्म, मिथुनकनरास्तु नलिनपत्रस्थितोदकहस्ता अलङ्कृतं भगवन्तं निरीक्ष्य विस्मयोत्फुल्लनयना व्याकुलीकृतचेतसः कियन्तमपि कालं विलम्ब्य भगवत्पादयोरुदकं प्रक्षिप्तवन्तः । एवंविधक्रियोपेतांश्च तान् दृष्ट्वा तुष्टः शक्रोऽचिन्तयत् , अहो ! खलु विनीता एते पुरुषा इति वैश्रमणमाज्ञापितवान् 'यदिह द्वादशयोजनविस्तीर्णी नवयोजनविष्कम्भां विनीतानाम्नी नगरी निष्पादयेति'आज्ञासमनन्तरमेव दिव्यभवनपतिप्राकारोपशोभितां नगरीहामवासयत् । ततो भगवान् राज्ये हस्त्यश्चगवादीनां सङ्ग्रहपुरस्सरमुग्रभोगराजन्यक्षत्रियलक्षणानि चत्वारि कुलानि RAMECARE क० ३८
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy