SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥१४८॥ दृष्ट्वा चेक्षुयष्टिं हृष्टवदनेन खामिना करे प्रसारिते भक्षयसीक्षुमिति भणित्वा दत्वा च तामिक्ष्वभिलाषात्खामिनी वंश इक्ष्वाकुनामा भवतु, गोत्रमप्यस्यैतत्पूर्वजानामिक्ष्वभिलाषात्काश्यपनामेति शक्रो वंशस्थापनां कृतवान् । अथेदृश्ये चावसरे किञ्चिन्मिथुनकं सआतापत्यं सदपत्यमिथुनकं तालवृक्षाधो विमुच्य रिरंसया क्रीडामन्दिरम गात् । ततः पवनप्रेरितेन पतता तालफलेनैकेनास्मिन् दारके व्यापादिते तत्पितृमिथुनकं प्रतनु कषायं तां दारिकां संव कियता कालेन च विपद्य सुरलोके समुत्पन्नं, सा चोद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार, दृष्ट्वा च तां सुरसुन्दरीकल्पामनल्पविस्मयोत्फुल्लनयना युगलिकनरा नाभिकुलकराय न्यवेदयन् । नाभिरपि शिष्ठेयं सुनन्दा नाम्नी ऋषभपत्नी भविष्यतीति लोकज्ञापनपुरस्सरं तां गृहीतवान् । ततः सुनन्दासुमङ्गलाभ्यां सह प्रबर्द्धमानो भगवान् यौवनमनुप्राप्तः । शक्रोऽपि प्रथम तीर्थकृद्विवाहकृत्यमस्माकं जीतमित्यनेकदेवदेवीकोटिपरिवृतः समागत्य खामिनो वरकृत्यं स्वयमेव कृतवान्, वधूकृत्यं च द्वयोः कन्ययोर्देव्य इति । ततस्ताभ्यां विषयोपभोगिनो भगवतः पड्लक्षपूर्वेषु गतेषु भरतत्राह्मीयुगलमन्यानि चैकोनपञ्चाशत्पुत्रयुगलानि सुमङ्गला प्रसूतवती बाहुबलि सुन्दरीयुगलं च सुनंन्देति ॥ २०९ ॥ उसमे णं अरहा कोसलिए कासवगुत्ते णं तस्स पणं पंच नामधिजा एवमाहिजंति तं जहाउसमे इ वा १ पढमराया इ वा २ पढमभिक्खायरे इ वा ३ पढमजिणे इ वा ४ पढमतिथंकरे इ वा ५ ॥ २१० ॥ किरणाव० ॥१४८॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy