________________
おしお
पक्खे चित्तबहुले तस्ल णं चित्तबहुलस्स अट्ठमीपक्खे णं नवग्रहं मासाणं बहुपडिपुन्नाणं अद्धमाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ २०८ ॥ व्याख्या - तेणमित्यादितो दारयं पयाय चि पर्यन्तं प्राग्वत् ॥ २०८ ॥
तं चैव सव्वं जाव देवा देवीओय वसुहारवासं वासिंसु सेसं तहेव चारगसोहणं माणुम्मावर्ण उस्सुक्कमाइयं ठिइवडियजूयवज्जं सव्वं भाणियव्वं ॥ २०९ ॥
व्याख्या - तं चैव सचमित्यादितो जूअवज्जं सवं भाणिअवं चि यावत्, तत्र अथ देवलोकच्युतो भगवान नुपमश्रीः, अप्रतिपातिज्ञानत्रयो, जातिस्मरो, ऽनेकदेवदेवीपरिवृतो, बुद्धिकान्तिकीर्त्त्यादिगुणैरशेषमनुष्येभ्योऽधिको, वरपद्मगभगौरो, बिम्बोष्ठो, ऽञ्जनसदृशिरोजः, फुलोत्पल कमलगन्धनिश्वासः, शुभध्यानक्षीरनीरपूरप्लावितं हृदयान्निर्गत्याधरपलवलनं रागं प्लावितुमनुलभेनेव स्फटिकावदातदन्तपङ्क्तिकान्तिकलापेनोपशोभितः, शारदेन्दुसुन्दरवदनः क्रमेण प्रवर्द्धमानः सन्नाहाराभिलाषे सुरसंचारितामृतरसामङ्गुलिं मुखे प्रक्षिपति । एवमन्येऽपि तीर्थकृतो बालभावेऽवग - न्तव्या, बालभावातिक्रमे पुनरशिपक्काहारभोजिनः, ऋषभस्त्वाप्रत्रज्या ( ज्यं) सुरानीतोत्तरकुरुकल्पद्रुम फल रसमा - | खादितवान् । किञ्चिदूनसञ्जातवर्षे च भगवति प्रथम तीर्थकुद्वंशस्थापनं शक्रजीतमिति विचिन्त्य कथं रिक्तपाणिः स्वामिनः पुरो यामीति महतीमिक्षुयष्टिमादायानेकदेवपरिवृतः शक्रो नाभिकुलकराङ्कस्थितस्य स्वामिनः पुरस्तस्थौ,
१ अद्धमाणं राईदियाणं । प्रत्यन्तरे ।