________________
25-ॐॐ
माख्यादष्टभवावधि ॥ ६ ॥ प्रातीहाथैः सदाश्चय-हृद्यैरतिशयैरपि । विजहार हरन् पापं, भगवानवनीतले ॥७॥ विहरन्नन्यदा खामी, रैवते समवासरत् । रथनेमिरुपादत्त, चारित्रं श्रीजिनान्तिके ॥८॥ अन्यदा नेमिनं नत्वा, रथनेमिः प्रतिव्रजन् । बाधितो दृष्टिकायेन, प्राविशत् कन्दरां गिरेः ॥९॥ राजीमत्यपि मेघाम्बु-बाधिता तद्गुहान्तरे । रथनेमिमजानाना तत्रस्थं प्राविशत्तदा ॥ १०॥ तमदृष्ट्वा तमिस्रण, श्रोणीनिहितचक्षुषम् । वस्त्राणि परितोऽक्षप्सी-दुद्वाताय महासती ॥ ११॥ खर्गलोकजयायेव, साधयन्तीं तपःक्रियाम् । दृष्ट्वा विवसनां तन्वीं, बभूवोत्कलिकाकुलः ॥ १२॥ भ्रातुर्वैरादिना जघ्ने, तथा कामेन मर्मसु । यथा चासौ पुरस्तस्या-स्तस्थावुत्तानितेक्षणः ॥ १३ ॥ आगच्छ स्वेच्छया भद्रे !, कुर्वहे सफलं जनुः । उभावपि वयःप्रान्ते, चरिष्यावस्तपोविधि ॥१४॥ श्रुत्वेत्यश्रुत्यमव्याज-चित्ता संवीय वाससी । सती स्पष्टमभाषिष्ट, धारयित्वा च धीरताम् ॥ १५॥ महानुभाव! संरम्भः, कोऽयं ते भवकारणम् । संस्मर खप्रतिज्ञां तां, प्रव्रज्यां मा स्म विस्मरः ॥ १६॥ संयतीप्रतिसेवादि, यदुक्तं बोधिघातकम् । श्रीमता नेमिनाथेन, तत्तवाद्यैव विस्मृतम् ॥ १७॥ यदुक्तम्-संयतीप्रतिसेवायां, धर्मोडाहर्षिघातयोः । देवद्रव्यविनाशे च, बोधिघातो निवेदितः ॥ १८ ॥ पूर्व गृहस्थया यस्त्वं, मया वाचापि नेहितः। साहं व्रतप्रतिज्ञायां, त्वामद्य कथमाद्रिये ॥ १९ ॥ अगन्धनकुले जाता-स्तिर्यञ्चो ये भुजङ्गमाः । तेऽपि वान्तं न पिबन्ति; तद्विद्धि खं ततोऽधिकम् ॥ २०॥ वराटिकाकृतेऽकस्मान् , मा स्म कोटिं विनाशयः । तस्माद्वीरत्वमाधाय, जुद धर्म समाचर ॥२१॥ इत्यादि मदनोन्माद-सर्पत्सपैकजाङ्गुली । तदुक्तियुक्तिमाकर्ण्य, चिन्तयामासिवा