SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐ गोरत्तणेऽवगुणा ॥१॥" इति केवलगौरत्वेऽपगुणाः' । एवं परस्परं तासां जल्पने जायमाने श्रीनेमिः पशूनामा खरं श्रुत्वा साक्षेपं हे सारथे! कोऽयं दारुणः स्वरः'? सारथिः प्राह-'युष्माकं विवाहकृते समुदायीकृतपशूनामयं खर' इत्युक्ते खामी चिन्तयति, धिग् ! विवाहोत्सवं, यदनुत्सवोऽमीषाम्, इतश्च 'हल्ली सहिओ किं मे दाहिणं चक्खु परिप्फुरई' ति वदन्तीं राजीमती प्रति सख्यौ प्रतिहतममङ्गलं ते इत्युक्त्वा थुत्थुत्कारं कुरुतः। नेमिस्तु हे सारथे ! रथमितो निवर्त्तय । अत्रान्तरे नेमि पश्यन्नेको हरिणः खग्रीवया हरिणीग्रीवां पिधाय स्थितः। अत्र कविघटना खामिनं वीक्ष्य हरिणो ब्रूते-“मा पहरसु मा पहरसु, एवं मह हिअयहारिणि हरिणि । सामी अहं मरणा, वि दुस्सहो पिअतमाविरहो ॥१॥" हरिणी नेमिमुखं निभाल्य हरिणं प्रति ब्रूते-“एसो पसन्नवयणो, तिहुअणसामी अकारणे बंधू । ता विण्णवेसु वल्लह, रक्खत्थं सबजीवाणं ॥१॥" हरिणोऽपि पत्नीप्रेरितो नेमि ब्रूते-"निज्झरणनीरपाणं, अरण्णतणभक्खणं च वणवासो । अम्हाण निरवराहा-ण जीवि रक्ख रक्ख पहो ॥१॥" एवं सर्वेऽपि पशवः खामिनं पशुप्राहरिकांश्च प्रति पूत्कुर्वन्ति, तावत्खामी बभाषे-'भो पशुप्राहरिका ! मुञ्चत मुञ्चत मृगादीन् , नाहं विवाहं करिष्ये' इतिनेमिवचसा प्राहरिकास्तथा कुर्वन्ति, सारथिरपि रथं निवर्त्तयति । अत्र कविः-"हेतुरिन्दोः कलक्के यो, विरहे रामसीतयोः। नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव सः॥१॥" समुद्रविजयशिवादेवीप्रभृतयः खजनास्तु शीघ्रमले गत्वा रथं स्खलन्ति, शिवा च सवाष्पं ब्रूते,-"पत्थेमि जणणिवच्छल !, वच्छ तुमं पढमपत्थणं किं पि । काऊण पाणिगहणं, मह दंसे निअवहूवयणं॥१॥" KESKUSTASSA SUOSISAAS
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy