SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ कम्पसूत्र० ॥१३९॥ तदवगतमेव परं तदूषणभाषणं न साम्प्रतं साम्प्रतम्' राजीमत्यपि त्रपया मध्यस्थतां दर्शयन्ती 'हे सख्यौ यस्याः कस्या अपि भुवनाद्भुतभाग्यसौभाग्यधन्यायाः कन्याया वरोऽयं भवतु नाम, परं पाथसां पाथोधिरिव सर्वगुणानामयमेको निधिर्मे मनसि प्रतिभासते, तदेतस्मिन् दूषणं क्षीरसागरे क्षारत्वमित्र, कल्पपादपे कार्पण्यमिवं, चन्दनद्रुमे दौर्गन्ध्यमिव, भास्करेऽन्धकारमिव, सुवर्णाचले चलत्वमिष, सुवर्णे श्यामत्वमिव पयसि पूतरजातमिव, लक्ष्म्यां दारिद्र्यमिव, सरखत्यां मौर्ण्यमिवासम्भाव्यमेव' । तदनु ताभ्यां सविनोदं निगदितं, 'भो राजीमति ! निरीक्षिते हि वरे गौरत्वमेव तावन्मुख्यो गुणो गीयतेऽपरे गुणास्तु प्रस्तावे तत्संस्तवे सति ज्ञायन्ते, गौरत्वं चास्य कज्जलवर्णाभमेव पश्यावः तच विचार्यमाणं कस्मैचिदपि न रोचते, तदेतदेव महदूषणं प्रवरस्यापि वरस्य महिमानमपहरति । राजीमती सासूयं सख्यौ प्रत्याह- 'अद्य यावन्मया चतुरतया चतुराननपुत्रिके इव चिन्त्यमाने अभूतां भवत्यौ, साम्प्रतं तु विपरीते इव संवृत्ते, यदेतत्सकलगुणकारणं श्यामलत्वमेव भूषण - तया भाषणार्ह दूषणरूपतया प्ररूपितम्, शृणुतां तावत्सावधानीभूय भवत्यौ, श्यामलत्वे श्यामलवस्त्वाश्रयणे च ये गुणाः केवलगौरत्वे च येऽपगुणाः, तथाहि “ भू १ चित्तवल्लि २ अगुरू ३, कच्छूरी ४ घण ५ कणीणिगा ६ केसा ७ । कसवट्ट ८ मिसी ९ रयणी १०, कसिणा एए अणग्धफला ॥ १ ॥” इति कृष्णत्वे गुणाः, "कप्पूरे अंगारो १, चंदे चिंधं २ कणीणिगा नयणे ३ । भुजे मरीयं ४ चित्ते, रेहा ५ कसिणा वि गुणहेऊ ॥ १ ॥” इति कृष्णवस्त्वाश्रयणे गुणाः, “खारं लवणं १ दहणं, हिमं २ च अइगोरविग्गहो रोगी ३ । परवसगुणो अ चुण्णो, केवल १ तानित्यध्याहारः श्रृणुतामित्यनेन संबध्यते. किरणाव० ॥१३९॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy