________________
युक्त्या यदूनामाग्रहांच्च मौनावलम्बिनमपि स्मिताननं निरीक्ष्य 'अनिषिद्धमनुमत' मिति न्यायात् स्वीकृतं पाणिग्रहणं नेमिनेति ताभिर्निर्घोषितं प्रससार च तथैव जनोक्तिरिति । ततः कृष्णेनोग्रसेनपुत्री राजीमती मार्गिता, चलितश्च श्रीसमुद्रविजयोऽनेकनरेन्द्रपरिवृतः सर्वसामय्या, श्रीशिवादेवीप्रमुखप्रमदाजनेन गीयमानो नयनानन्दकारी नेमिक्कुमारो रथस्थो धृतातपत्रः पाणिग्रहणाय त्रजन्नग्रतो वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलमन्दिरमिति पृष्टवान्, ततः सोऽङ्गुल्याऽदर्शयत् उग्रसेननृपस्य तव श्वशुरस्यायं प्रासादः स्मितानने च राजीमतीसख्यौ मृगलोचनाचन्द्राननाख्ये त्वां पश्यतः, तत्र मृगलोचना नेमिमालोक्य हे चन्द्रानने! "इकुच्चिय रायमई, वणियावग्गंमि वण्णणिज्जगुणा । जीसे नेमि करिस्सर, लायन्ननिही करग्गद्दणं ॥ १ ॥ "ति, चन्द्राननापि मृगलोचनामाह“रायमईए रूवं, विहिनिम्मविअं च रंभरुवहरं । न करिज्ज दइअमिअसिं, हविज्ज़ ता नूणमजसभरं ॥ १ ॥ ति, इतश्च सूर्यरवमाकर्ण्य मातृगृहात् राजीमती सखीमध्ये प्राप्ता, “हे सख्यौ भवतीभ्यामेव यथा साडम्बरमागच्छन् कोऽपि वरो विलोक्यते, तथाऽहमपि किं विलोकायितुं न लभेयम्” ? इति बलात् तदन्तरे स्थित्वा नेमिमालोक्य, | साश्चर्य स्वगतं किं पातालकुमारः ? किं वा मकरध्वजः ? किं वा सुरेन्द्रः ? किं वा पुण्यप्राग्भारो मूर्त्तिमान् ? “किं तस्स करेमि अहं, अप्पाणं वि हु निउंछणं विहिणो । निरुवमसोहग्गनिही, एस पई जेण मह विहिओ ॥ १ ॥ " त्ति, मृगलोचना राजीमत्यभिप्रायं परिज्ञाय सप्रीतिहासं 'हे सखि चन्द्रानने! समग्रगुणसम्पूर्णेऽपि वरेऽस्त्येकं दूषणम्, परं बरार्थिन्या राजीमत्याः शृण्वत्याः कथं वक्तुं शक्यते ?' चन्द्राननाऽपि 'हे सखि ! मृगलोचने ! मयापि