________________
कल्पसूत्र०
किरणाव०
॥१३८॥
सायदवं प्रभुर्निश्शङ्कक्रीडया पाणिग्रहणाभिमुखी कार्यः, ततश्च-"तावत्यः प्रमदाः सुगन्धिपयसा खर्णादिशृङ्गीहै भृशं, भृत्वा तनिपतजलयुगपदप्यत्याकुलत्वं प्रभोः। प्रावन्त विधातुमद्भुतजलक्रीडोल्लसन्मानसा-स्तावद् व्योमनि
देवगीरिति समुद्धता श्रुता चाखिलैः ॥३॥ मुग्धाः स्थः प्रमदा यतोऽमरगिरौ गीर्वाणनाथैश्चतुः-षष्ट्या योजनमानवकुहरैः कुम्भैः सहस्राधिकैः । बाल्येऽपि स्वपितो य एष भगवान्नाभून्मनागाकुलः, कर्तुं तस्य सुयत्नतोऽपि किमहो युष्माभिरीशिष्यते ॥४॥नेमी वि तओ काउ वि, सिंचइ सलिलेहिं ताउ सुरभीहिं । लीलाकमलेण उरं-मि हणइ काओ वि लीलाए ॥५॥” इत्यादि सविस्तरं जलकेलिः। ततः-कमलकेलिकुतूहलमित्यसाविह विलस्य विलासवतीसखः । कमलयुक्तकरः कमलाकरा-निरसरत्कमलाधिपतिस्ततः ॥६॥ जिनपनेमितनूमिह रुक्मिणी, खवसनेन मुदा निरमार्जयत् । तमुपवेश्य हिरण्मयविष्टरे, सबहुमानमथोग्रसुताऽवदत् ॥ ७॥ भो देवर ! ज्ञातं, गृहनिर्वाहकातरस्त्वं स्त्रीपरिग्रहं न करोषि, परं तदयुक्तम् , यतो भ्राता ते समर्थः, यथास्माकं द्वात्रिंशत्सहस्रसङ्ख्याकानां निहिं कुरुते, तथा किमेकस्या भ्रातृजायाया निर्वाहं कर्तुमक्षम ? इति, तथा"ऋषभमुख्यजिनाः करपीडनं, विदधिरे दधिरे च महीशतां । बुभुजिरे विषयांश्च बहून् सुतान् , सुषुविरे शिवमप्यथ | लेभिरे ॥ १॥ त्वमसि किन्तु नवोऽद्य शिवंगमी, भृशमरिष्टकुमारगरिष्ठधीः । विमृश देव ! गृहाण गृहस्थतां, कुरु सुबन्धुमनस्सु च सुस्थताम् ॥२ ॥अथ जगाद च जाम्बवती जवात् , शृणु पुरा हरिवंशविभूषणम् । स मुनिसुव्रततीर्थपतिही, शिवमगादिह जातसुतोऽपि हि ॥३॥" एवमन्यासामपि गोपिकानां वचांसि, ततो गोपिकानां वचो
॥१३८॥