SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ न्मूल्य स्तम्भादीनुबन्धनास्तत्रसुः । कृष्णस्तुत्पन्नः कोऽपि सपनो राज्यलिप्सुरिति चिन्तया त्वरितमायुधशालायामागात्, दृष्ट्वा च नेमि चकितो निजवलतुलनाय नेमि प्रति हरिराह-"आवाभ्यां वीक्ष्यते नेमे, खबलं हरिरित्यवक् । ततो नेमिहरी मल्लाक्षाटके जग्मतुर्दुतम् ॥१॥” श्रीनेमिराह-"अनुचितं ननु भूलुठनादिकं, सपदि बान्धव युद्धमिहावयोः । बलपरीक्षणकृ{जनामनं, भवतु नान्यरणः खलु युज्यते ॥२॥” द्वाभ्यां तथैव खीकृत्य प्रथमं हरिर्निजबाहुं प्रसारितवान्, वालितवांश्च नेमिः कमलनालवत् तद्बाहुं, निजबाहुलग्नं च कोपाचाप्रवदनं जनाईनं शाखावलम्बिकपिमिवान्दोलितवान् , ततो विषण्णः कृष्णो मम राज्यमेष सुखेन ग्रहीष्यतीति चिन्तातुरः खचित्ते चिन्तयामास । “क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । ममन्थ शङ्करः सिन्धुं, रत्नान्यापुर्दिवौकसः॥१॥" ततो बलभद्रेण सहालोचयति 'किं विधास्यावो नेमिस्तु राज्यलिप्सुषलवांश्च ततः आकाशवाणी प्रादुरभूत् 'अहो हरे! श्रीनमिनाथेन निगदितम्-यदयं नेमिरपरिणीत एव व्रतमाप्स्यतीति न शङ्का विधेया। ततश्च हरी राज्यलिप्सुरवश्यं स्त्रीपरिग्रहवानेव, न चायं बलवानपि तथेति विचिन्त्य, निश्चिन्तोऽपि पुनर्निश्चयार्थ वसन्तक्रीडामिषेण जलकेलिचिकीर्षया महाग्रहतो नेमिना सह रैवतकाचलभूतलभूषणमेकमनुपम सरः सान्तःपुरः प्राप्तः । तत्र च-"प्रणयतः परिगृह्य करे जिनं, हरिरवेशयदाशु सरोऽन्तरे। तदनु शीघ्रमसिञ्चत नेमिनं, कनकशृङ्गजलैः स च तं तथा ॥१॥ जिनपपाणिपुटेन पटीयसा, सलिलसेचनमाप्य कुमोदकः । कमपि तं प्रमदं प्रमदान्वितो-ऽप्यनुबभूव न यत्र गिरां गतिः ॥२॥” तथा रुक्मिणीप्रमुखगोपिकागणमपि संज्ञितवान् SHIKSHARAHAS
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy