________________
कल्पसूत्र० ॥१३४॥
444
पाणं रहा पुरिसादाणीए तेसीइं राइंदियाइं निच्चं वोसटुकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति तं जहा - दिव्वा वा माणुसा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा ते उत्पन्ने सम्मं सहइ खमइ तितिक्खइ अहियासेइ ॥ १५८ ॥
व्याख्या -पासे णमित्यादितः अहियासेर ति पर्यन्तम्, तत्र देवोपसर्गः कमठसम्बन्धी स चैवम् - स्वामी प्रव्रज्यैकदा विहरन तापसाश्रमे कूपसमीपे न्यग्रोधाधो निशि प्रतिमया स्थितः, इतः स मेघमाली सुराधमः श्रीपा|र्श्वमुपद्रोतुमागत्यामर्षान्धः वेतालशार्दूलवृश्चिकादिभिरक्षुब्धं भगवन्तं वीक्ष्य विशेषेण गगनेऽन्धकारसन्निभान् मेघान् विकृत्य कल्पान्तमेघवद्वर्षितुमारेभे, विद्युच्च ब्रह्माण्डं स्फोटयन्तीव दिशो व्यानशे, क्षणादेव नासाग्रं प्राप्ते जले आसनकम्पेन धरणेन्द्रः समं महिषीभिः समागत्य फणैः प्रभुमाच्छादितवान् अवधिना मेघमालिनमवलोक्य रे ! किमिदमारब्धमिति हक्कितो, भीतः प्रभुशरणं प्रपद्य प्रणम्य च स्वस्थानं ययौ, धरणेन्द्रोऽपि नृत्यादिविधिपुरस्सरं प्रभुभक्तिं विधाय ययाविति । एवं देवादिकृतानुपसर्गान् भगवान् सम्यक् सहते - भयाभावेनेत्यादि प्राग्वत् ॥ १५८ ॥
तसे पासे भगवं अणगारे जाए इरियासमिए जाव अप्पाणं भावेमाणस्स तेसीइं राई - दियाई विsताई चउरासीइमस्स राइदियस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे
किरणाव०
॥१३४॥