SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ सत्यम्, यद्येवं तथाऽपि निशीथचूर्णी कारणिकमेव साधूनां तद्वाचनमुक्तम्, ध्रुवसेननृपाग्रहातु कारणाद्यनपेक्षयैव | सर्वसम्मतं पर्युषणाकल्पस्य पर्षद्वाचनं प्रवृत्तम्, यद्वा पूर्व कारणिकमपि ग्रन्थोक्तवचनमात्रमेवासीत्परं तथाविधकारणाद्यनवकाशान्न केनापि साधुना पर्युषणाकल्पः पर्षदि वाचयितुमारब्धो, ध्रुवसेननृपाग्रहान्तु वाचितः सन् सर्वत्रापि प्रवृत्त इति सम्भाव्यते, तत्त्वं तु बहुश्रुतगम्यमिति । वायणंतरे इत्यादि, अत्र केचिद्वाचनान्तरं क्वचिदादर्शे पाठान्तरमन्यथा इति दीसह त्ति पदानुपपत्तिरिति कृत्वा यदेवाशीतिपक्षे तदेव पाठान्तरेण त्रिनवतिपक्षेऽपि जातमित्यव्यक्तमेव व्याख्यान्ति, अव्यक्तत्वं चैतत् सूत्रं श्रीभद्रबाहुखामिप्रणीतं परं न क्वापि विवृतमित्यभिप्रायेणैव बोध्यम् । केचित्पुनः पुस्तकवाचनात् कियता कालेन पर्षद्वाचना जातेति वचनात्पूर्वोक्त श्रीमुनिसुन्दरसूरिवचनाच्च पुस्तक| वाचनापेक्षयाऽन्या वाचना सा वाचनान्तरं, प्राकृतत्वात् षष्ठ्यर्थे सप्तमीति कृत्वा वाचनान्तरस्य पर्षद्वाचनालक्षणस्य दशमस्य वर्षशतस्यायं त्रिनवतितमः संवत्सरः कालो गच्छति, अयं भावः - नवशताशीति ९८० वर्षातिक्रमे पुस्तकवाचना प्रवृत्ता, नवशतत्रिनवति ९९३ वर्षे च पर्षद्वाचनेति । अन्ये तु केचन सन्देहविषौषध्यनुसारेण त्रिनवतियुतनवशतपक्षे त्वियता कालेन पञ्चम्याचतुर्थ्यां पर्युषणापर्व प्रववृते इति व्याख्यान्ति, परमेतद् व्याख्यानं स्थानकवृत्तिधर्मोपदेशमालावृत्तियावत्कालकाचार्यकथाप्रभावक चरित्रपर्युषणाकल्प चूर्णिनिशीथचूर्णिप्रभृतिभिर्विसंवदति, यतः स्थानकवृत्तौ धर्मोपदेशमालावृत्तौ सर्वाखपि कालकाचार्यकथासु प्रभावकचरित्रे च धरावा - | सनगराधिपतेर्वज्रसिंहनाम्नो राज्ञः सुन्दरीनाम्याश्च तद्देव्याः पुत्रः कालकनामा कुमारों, वैराग्यात् प्रत्रजितो, युग
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy