________________
AAAAAAE
माश्रमणः प्रक्षिप्तमिति क्वचित् पर्युषणाकल्पावचूणों, तदभिप्रायेण श्रीवीरनिर्वाणानवशताशीतिवर्षातिक्रमे सिद्धान्तं पुस्तके न्यसद्भिः श्रीदेवर्द्धिगणिक्षमाश्रमणैः श्रीपर्युषणाकल्पस्यापि वाचना पुस्तके । न्यस्ता. तथा सम्प्रदायगाथाऽपि-"वलहि पुरंमि अनयरे, देवहिप्पमुहसयलसंघहिं । पुत्थे आगमु लिहिओ, नवसयसीआउ वीराओ ॥१॥” इति श्रीदेवर्द्धिगणिक्षमाश्रमणैरेतत्सूत्रं पुस्तकलिखनकालज्ञापनाय लिखितमिति भावः, अत्र-“एवं व्रतस्थितो भक्त्या, सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु, महाश्रावक उच्यते ॥ १९॥" इति योगशास्त्रतृतीयप्रकाशैकोनविंशतितमश्लोकवृत्तौ तु जिनवचनं च दुःषमाकालवशादुच्छिन्नप्रायमिति मत्त्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम्, ततो जिनवचनबहुमानिना तत्पुस्तकेषु लेखनीयम, वस्त्रादिभिरभ्यर्चनीयं चेत्यपि दृश्यते, तेनैतदपि विचार्यमेवेति । केचित्तु-"नवशताशीतिवर्षे, वीरात् सेनाङ्गजार्थमानन्दे । सङ्घसमक्षं समहं, प्रारब्धं वाचितुं विज्ञैः ॥१॥” इत्याद्यन्तर्वाच्यवचनात् श्रीवीरनिर्वाणान्नवशताशीति ९८० वर्षातिक्रमे पुत्रमरणार्तस्य ध्रुवसेननृपस्य समाधिमाधातुमानन्दपुरे सभासमक्षं पर्युषणाकल्पो वाचयितुमारब्ध इति वदन्ति, परं तत्रेदं विचारणीयमस्ति, यतः कचित्रिनवत्यधिकनवशत ९९३ वर्षातिक्रमे ध्रुवसेननृपाग्रहादानन्दपुरे सभासमक्षं पर्युषणाकल्पवाचना जातेयपि दृश्यते, यदुक्तं-“वीरात्रिनन्दाङ्क ९९३ शरबचीकरत्त्वञ्चैत्यपूते ध्रुवसेनभूपतिः। यस्मिन् महैः संसदि कल्पवाचनामाद्यां तदानन्दपुरं न कः स्तुते ॥ ११॥" इति श्रीमुनिसुन्दरसूरिकृते स्तोत्ररत्नकोशे, एतद्यअकमपि पुस्तकवाचनातः कियता कालेन पर्षद्वाचना जातेति
SASRASHASAARE