________________
कल्पसूत्र ॥१२॥
येषां, एवं स्थिति-देवायूरूपा कल्याणी-उत्कृष्टा येषां, अथवा गतौ-मनुष्यगतौ कल्याणं येषां, स्थितौ-देवभवेऽपि किरणाव कल्याणं येषां वीतरागप्रायत्वात् , अत एवागमिष्यद्राणां-आगामिबवे सेत्स्यमानत्वात् , अथवा गतौ-प्राणगमनेऽपि, स्थिती-जीवितेऽपि कल्याणं येषां तवनियमसुट्ठिआणं' इत्याधुक्तेः अभयकुमारादिवत् ॥ १४५ ॥
समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था तं जहा जुगंतकडभूमी य परि श यायंतकडभूमी य जाव तच्चाओ पुरिसजुगाओ जुगंतकडभूमी चउवासपरियाए अंतमकासी१४६ * | व्याख्या-समणस्स णमित्यादितो अंतमकासीति पर्यन्तम्, तत्र अन्तकृतो-भवान्तकृतो निर्वाणयायिनस्तेषां भूमिः-कालः युगानि-कालमानविशेषास्तानि च क्रमवर्तीनि तत्साधाधे क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपास्तेऽपि युगानि तैः प्रमिता अन्तकृद्भमिर्या सा युगान्तकृद्भूमिः, पर्यायः-तीर्थकरस्य केवलित्वकालस्तमाश्रित्यान्तकृद्भूमिः पर्यायान्तकृद्भूमिः, जाव तचाओ पुरिसजुगाओ त्ति अत्र पञ्चमी द्वितीयार्थे यावत्तृतीयं पुरुष एव युगं पुरुषयुगंप्रशिष्यं जम्बूखामिनं यावदित्यर्थः, वीरादारभ्य तृतीयपुरुषयुगं यावत्साधवः सिद्धाः श्रीवीरः सुधा जम्बूश्चेति, ततः सिद्धिगतिच्छेदः चउपासपरिआए त्ति चतुर्वर्षपर्याये केवलिपर्यायापेक्षया भगवति जिने सति अन्तं-भवान्तमकार्षीत, तत्तीर्थे केवली सन्नपि साधु रात् कश्चिन्मोक्षं गतः, किन्तु भगवतः केवलोत्पत्तेश्चतुषु वर्षेषु गतेषु सिद्धिगमनारम्भः ॥ १४६ ॥