________________
व्याख्या-समणस्सेत्यादितो विउलमइसंपया हुत्थ त्ति पर्यन्तम् , तत्र विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा मतिः मनःपर्यायज्ञानं येषां, यथा घटोऽनेन चिन्तितः, स च सौवर्णः पाटलिपुत्रकः शारदः कालवर्ण इत्यादि विपुलमतयो जानन्ति, ऋजुमतीनां तु सामान्यत एव तेषामर्द्धतृतीयाङ्गुलन्यूननृक्षेत्रव्यवस्थितानां संज्ञिनां मनोमात्रग्राहकत्वं, इतरेषां तु सम्पूर्णे नृलोके, अत्र दर्शनाभावात् जाणमाणाणमित्येवोक्तम् ॥ १४२॥ समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुराए परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हुत्था ॥ १४३॥ व्याख्या-समणस्सेयादितो वाइसंपया हुत्थ त्ति यावत् सुगमम् ॥ १४३॥ .. समणस्स भगवओ महावीरस्स सत्त अंतेवासीसयाइं सिद्धाइं जाव सव्वदुक्खप्पहीणाई चउद्दस अज्जियासयाइं सिद्धाइं॥१४४॥ व्याख्या-समणस्सेत्यादितः अजियासयाइं सिद्धाई ति यावत् सुगमम् ॥ १४४ ॥ समणस्स णं भगवओ महावीरस्स अट्ठ सया अणुत्तरोववाइयाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिया अणुत्तरोववाइयाणं संपया हुत्था ॥ १४५ ॥ व्याख्या-समणस्सेत्यादितोऽणुत्तरोववाइआणं संपया होत्थ त्ति पर्यन्तम् तत्र गति-देवगतिरूपा कल्याणी