________________
द्वितीयो यथा-कश्चित् श्रेष्ठिपुत्रो दुर्विनीतः, मातापित्रादीनां प्रत्युत्तरं न देयमिति खजनसमक्षं शिक्षितः, कदाचित् सर्वेषु बहिर्गतेषु गृहद्वारं दत्त्वा स्थितो, द्वारागतेन श्रेष्ठिना द्वारोद्घाटनार्थ बहुशः शब्दकरणेऽप्यवदन्,18 भित्तेरुपरि प्रविश्य मध्यगतेन पित्रा खट्वास्थो हसनुपालन्धः प्राह युष्माभिरेव शिक्षितोऽहं, यत् प्रत्युत्तरं न देयमिति श्रेष्ठिपुत्रदृष्टान्तः। __ अजितादितीर्थे तु ऋजुप्रज्ञत्वादुभयमपि सुकरमेव, दृष्टान्तस्तु नटनृत्यावलोककसाधोरेव । यथा
केचिदजितादिजिनसाधवस्तथैव पृष्टाः, ऋजुत्वादूचुर्यथा-नटं वीक्षमाणाः स्थिताः, ततो गुरुणा तथैवोक्ताः, पुनरन्यदा नटीं दृष्ट्वा प्रज्ञत्वाद् विकल्पितवन्तो, नटवन्नट्यपि न वीक्षितव्या रागहेतुत्वादिति । । नन्वास्तां ऋजुप्रज्ञानां चारित्रं, ऋजुजडानां पुनः कथं? इति चेदुच्यते सत्यामप्यनाभोगतः स्खलनायां ऋजुजडानां तीव्रसंक्लेशाभावाद्भावतः शुद्धत्वात् , स्थिरभावेनैव चारित्रपरिणामस्तीर्थकृद्भिनिर्दिष्टः, तथा सहकारिवशेन कादाचित्को यस्थिरभावोऽपि न चारित्रपरिणामं हन्ति, न ह्यग्निसम्पर्कादुष्णमपि वगं वजत्वमपि जहातीति। यदाहुः श्रीहरिभद्रसूरिपादाः-"एवं विहाण वि इहं, चरणं दिटुं तिलोगनाहेहिं । जोगाण थिरो भावो, जहा एएसि सुद्धो उ॥१॥ अथिरो अ होइ भावो, सहकारिवसेण ण पुण तं हणइ । जलणा जायइ उण्हं वजं न य चयइ तत्तं पि ॥२॥” इति । नन्वेवं युक्तश्चरणानपगम ऋजुजडानामार्जवलक्षणस्य गुणस्य सद्भावात्, वक्रजडानां पुनर्दोषद्वयसद्भावात् कथमसौ ? इति चेदित्यत्राप्युच्यते, यथा-ऋजुजडानामनाभोगतः स्खलना, तथा मायैव है।