SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ० ॥५॥ त्वात्ते चोचुर्यथा-नटं नृत्यन्तं प्रेक्षमाणाः स्थितास्ततो गुरुस्तानशिष्यत्, यथा- मा पुनरेवं कार्षुरिति प्रतिपन्नवन्तश्च तत् ते, ततोऽन्यदा ते तथैव पृष्टा ऊचुर्यथा - नटीं नृत्यन्तीं वीक्षमाणाः स्थिताः प्रेरिताश्च गुरुणा, ते जडत्वादूचुर्भवर्निटस्तदा निषिद्धो न नटीति, नटे हि निषिद्धे नटी निषिद्धैवेति प्रतिपत्तुं न शक्तिं तैरिति । -अन्योऽपि दृष्टान्तो यथा 1 एकः कुंकणदेशजन्मा वणिग् वृद्धत्वे कुटुम्बमोहं संत्यज्य प्रत्रजितः, स चैकदेर्यापथिकीकायोत्सर्गे चिरकालं स्थितवान् किं कारणं ? इति गुरुणोक्ते जीवदया चिन्तितेत्यवदत् । कथं ? इति पुनः पृष्टे गृहे वसद्भिरस्माभिः क्षेत्रे वृक्षनिसूदनादिपुरस्सरमुप्तानि धान्यानि भूयस्यभूवन् इदानीं मत्पुत्रा निश्चिन्ता अकुशलाश्च नैतत्करिष्यन्ति, तथा च ते वराकाः क्षुत्पीडिता मरिष्यन्तीति ऋजुत्वात् स्वाकूते कथिते गुरुभिरुक्तं जीवघातादि विना कृषि - र्नोत्पद्यते इति दुर्व्यातमित्युक्ते मिथ्यादुष्कृतं दत्तवान् । इति ककणसाधुदृष्टान्तः । वीरतीर्थे तु वक्रजडत्वाद् व्रतादिपालनं तद्विशुद्धिश्चेत्युभयमपि दुःसाध्यं । अत्रापि दृष्टान्तद्वितयं, तत्र प्रथमो यथा - केचित् किल चरमजिनसाधवस्तथैव पृष्टा ऊचुर्यथा-नटं वीक्षमाणाः स्थितास्ततो गुरुणा निषिद्धाः पुनरन्यदा | नटीं वीक्षमाणाः स्थिताः पृष्टाश्च, वक्रतयोत्तरान्तराणि ददुः, निर्बन्धे च नटीमुक्तवन्त, उपालन्धाश्च सन्तो जडत्वादूचुर्यथा नट एव न द्रष्टव्य इत्यस्माभिर्ज्ञातमासीदिति । फिरणाच० ॥ ५॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy