________________
ॐॐॐॐARE
मासवृद्धौ क्रमेण दिनानामशीतिः शतं च सम्पद्यते कथं पञ्चाशत्सप्ततिा? इत्याद्याक्षेपपरिहारौ तु सामाचार्या "अंतरा वि से कप्पई" इत्यतनग्रन्थव्याख्यावसरे वक्ष्यामः। सालम्बनस्तु स्थविरकल्पिकानामेव, विहितमासकल्पानां तत्रैव चतुर्मासकानन्तरमपि मार्गशीर्ष यावदवस्थाने पाण्मासिकोऽवगन्तव्यः । उक्तं च-"काऊण मासकप्पं, तत्थेव ठिआण तीतमग्गसिरे । सालंबणयाणं पुण, छम्मासिओ होइ जिगहो ॥१॥त्ति।" एवं व्यावर्णितखरूपः पर्युषणाकल्पः प्रथमचरमजिनतीर्थे नियतः, शेषाणां त्वनियतः, यतस्ते दोषाभावे देशोनां पूर्वकोटिमपीच्छन्त्येकत्रावस्थिति, इतरथा न मासमपीत्येवं विदेहेऽपि, इति पर्युषणाकल्पो दशमः ॥१०॥ | एते दशापि कल्पा ऋषभवर्द्धमानतीर्थे नियता एव, अजितादीनां तीर्थे तु आचेलक्यौ १ देशिक २ प्रतिक्रमण ३ राजपिण्ड ४ मास ५ पर्युषणा ६ लक्षणाः षट्कल्पा अनियताः, शेषास्तु शय्यातर १ चतुर्बत २ पुरुषज्येष्ठ ३ कृतिकर्म ४ लक्षणाश्चत्वारो नियता एवेति । एवं दशानामपि कल्पानां नियतानियतविभागकरणे कारणं तावत् तत्तत्कालभाविनो मनुजा एव, यदुक्तं-"पुरिमा उजुजड्डा उ, वक्कजडा उ पच्छिमा । मज्झिमा उजुपन्ना उ, तेण धम्मे दुहा कए ॥१॥ पुरिमाणं दुविसुज्झो उ, चरिमाणं दुरणुपालओ। कप्पो मज्झिमगाणं तु, सुविसुज्झे सुपालए ॥२॥" तत्र ऋषभतीर्थे ऋजुत्वेन ब्रतादिप्रतिज्ञानिर्वाहित्वेऽपि नटनर्तकीनृत्यावलोककसाधुदृष्टान्तेन जडत्वाद्विशुद्धिर्दुस्साध्या । तथाहिकिल केचिदादिमजिनयतयो विचारभूमेर्गुरुसमीपमागताः पृष्टाश्च गुरुभिर्यथा-किमियचिरायमागताः? ऋजु