________________
कल्पसूत्र०लम्बश्च, निरालम्बोऽपि जघन्योत्कृष्टभेदभिन्नो द्विविधः, तत्र जघन्यस्तावत्सावत्सरिकप्रतिक्रमणादारभ्य कार्तिक-13
चतुमासकप्रतिक्रमणं यावत्सप्ततिदिनमानः, उत्कृष्टस्तु चातुर्मासिकः, सोऽपि गृहिज्ञाताऽज्ञातभेदाभ्यां विभज्यमानो द्वेधा, तत्र गृहिज्ञातस्तावत्सप्ततिदिनमानोऽनन्तरोदित एव, अज्ञातस्त्वाषाढचतुर्मासकप्रतिक्रमणात् सांवत्सरिकप्रतिक्रमणं यावत्पञ्चाशदिनमानः, परं खाभिगृहीतोऽपि पञ्चकवृख्याऽयमेव, तथाहि-आषाढसितदशमीस्थिताः साधवः पूर्णिमास्यां वयमत्र स्थिताः स्म इति खाभिगृहीतं कुर्वन्ति, कुर्वन्तस्तु तृण-डगल-भस्म-मलकपीठ-फलक-शय्या-संस्तारकादीनि वर्षायोग्यान्युपकरणानि खायत्तीकुर्वन्ति, मङ्गलनिमित्तं पञ्चदिनानि यावत् पर्युषणाकल्पं कर्षयन्ति, पृच्छतां च गृहस्थानां पुरोऽधिकरणादिदोषसम्भवशङ्कया वयमत्र स्थिताः स्म नवेति नियमाभावमेव वदन्तीत्येष उत्सर्गः-"सेसकालं पजोसविताणं अववाओ ति" वचनात्तथाविधक्षेत्रादिसामय भावे श्रावणकृष्णपञ्चम्यां पर्युषितव्यं, तदभावे दशम्यां, तदभावे पञ्चदश्यां, एवं पञ्चकपञ्चकवृद्धिस्तावत् क्रियते यावद्भाद्रपदसितपञ्चमी, तस्यां तु नियमतो गृहिज्ञातमेव पर्युषितव्यं, अयं च विधिः सङ्घादेशाद् ब्युच्छिन्नः, अत इदानी खाभिगृहीतं गृहिज्ञातं चेत्युभयथापि भाद्रपदसितचतुर्थ्यामेव पर्युषितव्यं । तत्र दिनानां पञ्चाशदापाढसितचतुर्दश्या आरभ्य भाद्रसितचतुर्थ्यन्तं, सप्ततिस्तु चतुर्थ्या आरभ्य कार्तिकसितचतुर्दश्यन्तं, अयं द्वेधापि निरालम्बनः स्थविरकल्पिकानामेव, जिनकल्पिकानां तु चातुर्मासिक एवेति, उक्तं च-"चाउम्मासुक्कोसो, सत्तरिराईदिआ जहन्नेणं । थेराणं जिणाणं पुण, नियमा उक्कोसओ चेव ॥ १॥ ति।" पर्युषणाया अर्वाग् परत्र च
HAR