SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ एते त्वदृष्ट कल्याणवत् कथं ? गजाश्वादिषु सङ्गं कुर्वन्तीत्येवंरूपा, अथैते दोषा मध्यमजिन मुनीनामपि भवेयुरिति कथं तदग्राह्यता ? इत्याह – “इयरेसि न अप्पमायाउ त्ति" इतरेषां मध्यमजिनमुनीनां न-नैवैते दोषा भवन्ति, कुतः ? अप्रमादात्, यतस्ते ऋजुप्रज्ञत्वाद विशेषेणाप्रमादित्वेनोक्तदोषपरिहारपरायणाः, इतरे पुनः ऋजुजडवक्रजडत्वेन न तथा, इति राजपिण्डकल्पश्चतुर्थः ॥ ४ ॥ तथा कृतिकर्म - चन्दनकं तद्विधा, अभ्युत्थानं वन्दनकदानं च । द्वितयमप्येतत् सर्वजिनतीर्थेषु साधुभिर्यथापर्यायादिना परस्परं विधेयं, साध्वीभिस्तु सर्वाभिरपि पुरुषोत्तमो धर्म्म इति कृत्वा सर्वे साधवोऽभिवन्दनीयाः, न पुनः पर्यायाद्यपेक्षणीयं, यदुक्तं - " वरिससयदिक्खिआए, अज्जाए अज्जदिक्खिओ साहू । अभिगमणवंदणनमं-सणेण विणण सो पुजो ॥ १ ॥ धम्मो पुरिसप्पभवो, पुरिसवरदेसिओ पुरिसजिट्ठो । लोए वि पहू पुरिसो, किं पुण लोगुत्तमे धम्मे ? ॥ २ ॥” स्त्रीवन्दने च बहवो दोषाः, तथाहि - " तुच्छत्तणेण गयो, जायइ नो संकई परिभवेणं । अन्नो वि हुज्ज दोसो, थिआसु माहुजहिज्जा ॥ १ ॥ त्ति” माधुर्यहार्यावित्यर्थः । योग्यस्य च यथाई वन्दना - करणेऽहङ्कृतेन चैर्गोत्रकर्मणो बन्धो, नूनमत्र प्रवचने बिनयो नाभिधीयत इति प्रवचनखिंसा, अज्ञा वा एते लोकरूढिमपि नानुवर्त्तयन्तीति निन्दापि, ततश्च बोधिदुर्लभता संसारवृद्धिश्चेति दोषाः, इति कृतिकर्मकल्पः पञ्चमः ॥ ५ ॥ तथा व्रतानि - महाव्रतानि तान्येव कल्पो व्रतकल्पः, स च तत्रतोऽभेदेऽपि प्रथमचरम जिनतीर्थयोः पञ्चमहाव्रतशेषाणां तु चतुर्व्रतलक्षणो, यतो नापरिगृहीतानां स्त्रीणां परिभोगः सम्भवतीति तद्विरतौ तासामपि विरतिरे लक्षणः,
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy