________________
कल्पसूत्र०
किरण
॥३॥
वेति ऋजुप्रज्ञानां प्रज्ञा, न तु शेषाणां, परमयं द्वेधाऽपि खखतीर्थेषु स्थित एवाषगन्तव्यः, इति सकल्पः पयुः ॥६॥ | तथा ज्येष्ठो-रत्नाधिकः स एव कल्पो ज्येष्ठकल्पो ज्येष्ठत्वव्यवहार इत्यर्थः, स च प्रथमपश्चिमजिनयतीनामुपस्थापनात एवारभ्य, शेषाणां तु निरतिचारत्वात् प्रव्रज्यात एवेति । अथ पितापुत्रादीनां दूयोर्युगपदुपस्थाने कवं ज्येष्ठता व्यवहार ? इत्याह-"पितिपुत्तमाइआणं, समग पत्ताण जिपितिपभिई। थेवंतरे विलंबो, पनवणाए उवट्ठवणा ॥१॥" व्याख्या-पितापुत्रादीनां-जनकसुतप्रभृतीनां आदिशब्दात् राजाऽमात्य-मातादुहित-राममात्यादिग्रहः, समकं युगपत्प्राप्तानां-विवक्षिताध्ययनाधिगमेनोपस्थाप्यतायोग्यतामघातानां ज्येष्ठाः पितप्रश्तया स्युः, आदिशब्दात् राजामात्यराझ्यादिग्रहः, अथ पुत्रादिः प्रासो न पित्रादिस्तदा को विधिः, इस्याह-स्तोकेऽल्पेऽन्तरे विशेष दिनद्वयादितः पित्रादिरपि प्राप्स्यतीत्येवंरूपे विलम्ब-प्रतीक्षणं कार्यः, पित्रादौ प्रासे सति युगपदेव पितापुत्रादिरुपस्थापनीयः, माऽभूत् पुत्राद्यपेक्षया लघुताकरणेन पित्रादेरसमाध्युत्पत्तिनि:क्रमणादेरिति । अथ बहन्तरं तदा को विधिः?, इत्याह-प्रज्ञापनया-पित्रादिसम्बोधनया तव पुत्रो विवक्षितां श्रियं प्राप्नोति अन्येषां| च.ज्येष्ठतरो भवति तवैवाभ्युदयस्ततो न त्वयाऽस्य विनो विधेय इत्यादि लक्षणया उपस्थापना-त्रतादिरोपणा कार्या, अथ प्रज्ञाप्यमानोऽपि यदि न प्रतिपद्यते तदा प्रतीक्षणीयं यावदसौ प्रामोति, ये राजादयो युमपबदा तूपस्थाप्यन्ते तदा यथासनं ज्येष्ठता, इति ज्येष्ठकल्पः सप्तमः ॥७॥ तथा प्रतिक्रमण-पडूविधाऽऽवश्यककरणं तवातिचारो भवतु मा वा पुनरुभयसन्ध्यमवश्यं कर्तव्यमिति प्रथम