________________
एते त्वदृष्टकल्याणवत् कथं ? गजाश्वादिषु सङ्गं कुर्वन्तीत्येवंरूपा, अथैते दोषा मध्यम जिन मुनीनामपि भवेयुरिति कथं तदग्राह्यता ? इत्याह – “इयरेसि न अप्पमायाउ त्ति” इतरेषां मध्यमजिनमुनीनां न-नैवैते दोषा भवन्ति, कुतः ? अप्रमादात्, यतस्ते ऋजुप्रज्ञत्वाद् विशेषेणाप्रमादित्वेनोक्तदोषपरिहारपरायणाः, इतरे पुनः ऋजुजडवक्रजडत्वेन न तथा इति राजपिण्डकल्पश्ञ्चतुर्थः ॥ ४ ॥
तथा कृतिकर्म-वन्दनकं तद्विधा, अभ्युत्थानं वन्दनकदानं च । द्वितयमप्येतत् सर्वजिनतीर्थेषु साधुभिर्यथापर्यायादिना परस्परं विधेयं, साध्वीभिस्तु सर्वाभिरपि पुरुषोत्तमो धर्म्म इति कृत्वा सर्वे साधवोऽभिवन्दनीयाः, न पुनः पर्यायाद्यपेक्षणीयं, यदुक्तं - " वरिससयदिक्खिआए, अज्जाए अज्जदिक्खिओ साहू । अभिगमणवंदणनमं-सणेण विणण सो पुज्जो ॥ १ ॥ धम्मो पुरिसप्पभवो, पुरिसवरदेसिओ पुरिसजिट्ठो । लोए वि पहू पुरिसो, किं पुण लोगुत्तमे धम्मे ? ॥ २ ॥" स्त्रीवन्दने च बहवो दोषाः, तथाहि – “तुच्छत्तणेण गधो, जायइ नो संकई परिभवेणं । अन्नो वि हुज्ज दोसो, थिआसु माहुजहिज्जासु ॥ १ ॥ त्ति" माधुर्यहार्यावित्यर्थः । योग्यस्य च यथाई वन्दनाऽकरणेऽहङ्कृतेनचैर्गोत्रकर्मणो बन्धो, नूनमत्र प्रवचने विनयो नाभिधीयत इति प्रवचनखिंसा, अज्ञा वा एते लोकरूढ़ि - मपि नानुवर्त्तयन्तीति निन्दापि, ततश्च बोधिदुर्लभता संसारवृद्धिश्चेति दोषाः, इति कृतिकर्मकल्पः पञ्चमः ॥ ५ ॥
तथा व्रतानि - महात्रतानि तान्येव कल्पो व्रतकल्पः, स च तत्रतोऽभेदेऽपि प्रथमचरमजिनतीर्थयोः पञ्चमहात्रतलक्षणः, शेषाणां तु चतुर्व्रतलक्षणो, यतो नापरिगृहीतानां स्त्रीणां परिभोगः सम्भवतीति तद्विरतौ तासामपि विरतिरे