________________
कल्पसूत्र ०
॥२॥
कृतं तौ द्वावपि शय्यातरौ भवतः । तृण - डगल - भस्म - मल्लक- पीठ - फलक- शय्या - संस्तारक - लेपादिवस्तूनां ग्रहणे | सोपधिकशिष्यप्रत्राजने चाऽऽज्ञया कल्प्यत्वाच्छय्यातरो न भवति, इति शय्यातरकल्पस्तृतीयः ॥ ३॥
तथा राजा तावदुदितोदितकुलप्रसूतो बद्धमुकुटराज्ञाऽभिषिक्तः, सेनापति १ पुरोहित २ श्रेष्थ्य ३ मात्य ४ सार्थवाह ५ लक्षणैः पञ्चभिः सार्द्धं राज्यं भुआनश्चक्रवर्त्त्यादिस्तस्य यः पिण्डोऽशनादिचतुष्कं ४ वस्त्रं ५ पात्रं ६ कम्बलं ७ रजोहरणं ८ चेत्यष्टविधः, स च प्रथमचरमतीर्थ कृत्तीर्थयोर्व्याघातादिदोषदूषितत्वादकल्प्यः, यदाह - “मुदितादिगुणो राया, अट्ठविहो तस्स होइ पिंडु त्ति । पुरिमेयराणमेसो, वाघायाईहिं पडिकुट्ठो ॥ १ ॥ ति" । व्याघातादयः पुनरेवं, – “ईसरपभिईहिं तर्हि, वाघाओ खद्धलोहुदाराणं । दंसणसंगो गरहा, इअरेसि न अप्प - मायाओ ॥ १ ॥" अस्या अर्थः – ईश्वरप्रभृतिभिर्युवराजतलवरमाडम्बिकादिभिः सपरिकरैः प्रविशद्भिर्निर्गच्छद्भिश्च तस्मिन् राजकुले व्याघातः - स्खलना साधोः प्रवेशनिर्गमयोः, ततश्च भिक्षाखाध्यायादीनामपि व्याघातः, अथवा सम्मर्दादमङ्गलबुद्ध्या वा कायपात्रप्रभृतीनां व्याघातो - हननं स्यात्, “खद्धलोह ति” खद्धे - प्रभूतेऽन्नादौ लभ्यमाने लोभो - लुब्धता, तथा उदाराणां - हस्त्यश्वस्त्रीपुरुषादीनां दर्शने - अवलोकने सङ्गो-अभिष्वङ्गः स्यात्, ततश्चात्मविराधनादि- चारक- चोर- कामुकादिसम्भावनया राजकोपात् कुल-गण-सङ्घाद्युपघातश्च स्यात्, तथा गर्हा - निन्दा, यथा - अहो ! एते गर्हणीयमपि राजप्रतिग्रहं स्वीकुर्वन्ति, गर्हणीयता च तस्य स्मात्तैरेवमूचे – “राजप्रतिग्रहदग्धानां ब्राह्मणानां युधिष्ठिर ! । छिन्नानामिव बीजानां पुनर्जन्म न विद्यते ॥ १ ॥ " अथवा अनभिष्वङ्गा मुनयो मता
किरणाव०
॥२॥