________________
कल्पसूत्र०
किरणाव.
॥६॥
वक्रतेति वचनात् वक्रजडाना प्रायः कालानुभावतोऽसकृन्मातृस्थानादेव, तच्च संज्वलनकषायाणामेवातिचार- हेतुत्वात् तत्सङ्गतमेवात्र प्रायं, नेतरत्, तस्य चारित्राधुपहन्तृत्वात् । यदुक्तं-“सबे वि अ अइयारा, संजलणाणं तु उदयओ हुंति । मूलच्छिजं पुण होइ, बारसण्हं कसायाणं ॥१॥" यच्चामीषां जडत्वं तन्मेधामधि|कृत्यैव बोध्यं, न पुनः परकीयलक्ष्याभिप्रायावगममाश्रित्यापि यद्वा वक्रजडानां जडत्वं मायायामेवान्तर्भवति, यतस्ते जानन्तोऽपि परप्रत्ययनार्थ माययैवासदप्यात्मीयं जडत्वमाविष्कुर्वन्ति, तस्माजडत्वमुपचरितं, माया तु वास्तवीति वास्तव्येव मायाहेतुका चारित्रस्खलनेति भावः इति । केचिच्चातिचारबाहुल्यात् दुष्षमायां चारित्रमेव न मन्यन्ते तदप्यसमञ्जसमेव । “न विणा तित्थं निग्गंथेहि" इति वचनान्निग्रन्थैर्विना तीर्थस्यैवासम्भवात् , व्यवहारभाष्ये त्वेवंविधवक्तॄणां महतः प्रायश्चित्तस्योक्तत्वाच । तथा-"जो भणइ नत्थि धम्मो, न य सामाइन चेव वयाई । सो समणसंघबज्झो, कायबो समणसंघेण ॥१॥” इत्याधुक्तेश्च, तस्मात् पूर्वसाध्वपेक्षया हीनहीनतरक्रियापरिमाणवत्त्वेऽपि नृपगोपवृक्षवृषभपुष्करिण्याद्यागमोक्तदृष्टान्तेन दुष्षमसाधूनां साधुत्वमेवेत्यादिबहुवक्तव्यं ग्रन्थान्तरादवगन्तव्यमिति । यस्तु सप्ततिदिनमानः पर्युषणाकल्पो नैयसेनोक्तः, स चाशिवादिकारणाभावे सतीति बोध्यं । अशिवादिदोषसद्भावे तु अर्वागपि निर्गमने जिनाव, यत उक्तं-"असिवे ओमोअरिए, रायदुढे भए 1 'मातृस्थानात्' कौटिल्यात् ।।
BHARASESARKASHA