SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥१२५॥ ASSESSAGAR:-* भविष्णुरसौ महाग्रहः पश्चात् त्वदीयतीर्थस्य बाधाकारी न स्यात्' ततः प्रभुणोक्तम् 'न खलु त्रुटितमायुः सन्धातु किरणाव जिनेन्द्रैरपि पार्यते, ततोऽवश्यं भाविनी तीर्थबाधा, कल्किनि च कुनृपे षडशीतिवर्षायुषि सहोपप्लवकारिणि भवता निगृहीते वर्षसहस्रद्वये पूर्णे मजन्मनक्षत्राद्भस्मराशिग्रहे व्यतिक्रान्ते कल्किपुत्रधर्मदत्तराज्यादारभ्य भविता श्रमणसङ्घस्य पूजासत्कारः' स चैवं यतः प्रायः प्रवचनपीडामुत्पादयितुं पूजाद्यपहर्तुं च कुप्रभव एव प्रभविष्णवस्ते च धर्मदत्तराज्यादापञ्चमारकं प्रायोऽसम्भविनः । उक्तञ्च श्रीहेमाचार्यैः श्रीवीरचरित्रे-18 "पितुः पापफलं घोरं, शक्रशिक्षां च संस्मरन् । दत्तः करिष्यति मही-महच्चैयविभूषिताम् ॥ १ ॥ पञ्चमारकपर्यन्तं. यावदेवमतः परम् । प्रवृत्तिर्जिनधर्मास्य, भविष्यति निरन्तरम् ॥२॥” तथा शवक्षयमाहात्म्येऽपि 'पञ्चमारकपर्यन्तं' इत्यादि, एवं सर्वदेशविसंवादिकुपाक्षिकबाहुल्यमपि यत्प्रवचनपीडाकारि तस्यापि प्रायोऽसम्भव एव भाव्यः, अन्यथोदितोदितपूजाधुपपादकसूत्रानुपपत्तिः स्यात् । ननु सत्यपि कुपाक्षिकबाहुल्ये सम्प्रतिवत्तदानीमपि पूजासत्कारो भवतु किं बाधकमिति चेत् ? उच्यते-यो हीदानीन्तनपूजासत्कारः स च भाविनः स्फीतपूजासत्कारस्य बीजभूतो न पुनः खयं स्फीतः, यतः कुपाक्षिकबाहुल्ये सत्यास्तामन्यः सुमार्गपतितोऽपि प्रायो भूयान् जनः कुपक्षसुपक्षयोस्तुल्यधिया प्रवर्त्तमानः पूजासत्कारं कुर्वन्नपि न द्वेषिमुद्रामतिकामति । ॥१२५॥ यतः-"सुनिश्चितं मत्सरिणो जनस्य, न नाथ मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचे च समानबन्धाः ॥१॥” इति श्रीहेमाचार्यकृतद्वात्रिंशिकायाम् । अतस्तत्कृतः पूजासत्कारोऽप्यकिश्चित्कर एव, यस्तु
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy