SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ० ॥१२३॥ ++++ च 'पसरइ मिच्छत्ततमं गजंति कुतित्थकोसिआ अज्ज । दुब्भिक्खडमरवेराई, निसिअरा हुंति सप्पसरा ॥ १ ॥ अथ - मिए जह सूरे, मउलेइ तुमंमि संघकमलवणं । उल्लसइ कुमयतारा-निअरो वि हु अज जिणवीर ! ॥ २ ॥ तमगसिअससिं व नहं, विज्झायपईवयं व निसि भवणं । भरहमिणं गयसोहं, जायमणाहं च पहु अज्ज ॥ ३ ॥ ' तथाहा हा हा वीर ! किं कृतं यदीदृशेऽवसरेऽहं दूरीकृतः । किमाडकं मण्डयित्वा बालकवत्तवाञ्चलेऽलगिष्यं ? किं केवलभागममार्गयिष्यं ? किं त्वयि कृत्रिममना अभवं ?, किं मुक्तौ सङ्कीर्ण ? किं तवाणक्खकारकोऽभवं ?, किं वा तव भारोऽभवं, हा वीर ! कथं विस्मारितोऽहं ? कस्याग्रे सन्देहान् प्रक्ष्ये ? हा वीर ! विरहं कुर्वाणेन महान् विरामः कुतः, कस्याग्रे कथयामि ? वीर वीर इति वी वी तस्य लग्नाऽभवत्, हुं हुं ज्ञातं वीतरागा निःस्नेहा भवन्ति, धिग मां येन निर्वाणसमये श्रुतोपयोगोऽपि न ददे, धिग् ममैकपाक्षिकं स्नेहम्, अलं स्नेहेन, एकोऽस्मि, नास्ति कश्चन मम, एवं सम्यक् साम्यं भावयतः तस्य केवलमुत्पेदे । “मुक्खमग्गपवण्णाणं, सिणेहो वज्जसिंखला । वीरे जीवंतए जाओ, गोअमो जं न केवली ॥ १ ॥” प्रातरिन्द्राद्यैर्महिमा कृतः, "अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायाभूत्, चित्रं श्रीगौतमप्रभोः ॥ १ ॥” द्वादश वर्षाणि केवलिपर्यायं परिपाल्य दीर्घायुरिति कृत्वा सुधर्मखामिनो गणं समर्प्य मोक्षं ययौ । सुधर्मखामिनोऽपि पश्चात्केवलोत्पत्तिः, सोऽप्यष्टौ वर्षाणि केवलितया विहत्याऽर्यजम्बूखामिनो गणं समर्प्य सिद्धिं गतः ॥ १२७ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं स्यणि चणं किरणाव० ॥ १२३ ॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy