SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ नव मल्लई नव लेच्छई कासीकोसलगा अट्ठारस वि गणरायाणो अमावासाए पाराभोयं पोसहोववासं पट्टविंसु गए से भावुजोए दव्वुजोयं करिस्सामो ॥ १२८ ॥ - व्याख्या-जं रयणिं च णमित्यादितो दव्वुजो करिस्सामो त्ति पर्यन्तम् तत्र नव मल्लकिजातीयाः काशीदेशस्य राजानः, नव लेच्छकिजातीयाः कोशलदेशस्य राजानः, ते च कार्यवशात् गणं मेलापकं कुर्वन्तीति गणराजानोऽष्टादश ये चेटकमहाराजस्य भगवन्मातुलस्य सामन्ताः श्रूयन्ते, ते तस्थाममावास्यायां पारं-पर्यन्तं भवस्याभोगयति-पश्यति यः स पाराभोगः-संसारसागरपारप्रापणप्रवणस्तं, अथवा पारं-पर्यन्तं यावदाभोगो-विस्तारो यस्य स पाराभोगोऽष्टप्राहरिकः प्रभातं यावत् सम्पूर्ण इत्यर्थः, तं तथाविधं पौषधोपवासं पट्टविंसु त्ति प्रस्थापितवन्तः-कृतवन्तः। कचित् बाराभोए त्ति पाठस्तत्र द्वारमाभोग्यतेऽवलोक्यते यैस्ते द्वाराभोगाः-प्रदीपास्तान् कृतवन्तः आहारत्यागपौषधरूपमुपवासं चाकार्षरिति वृद्धव्याख्या, एतदर्थानुपात्येव चोत्तरसूत्रम् , गतः स भावोद्योतो ज्ञानरूपो-ज्ञानज्ञानिनोरभेदात् ज्ञानमयो भगवान् गतो-निर्वाणः, अतो द्रव्योद्योतं प्रदीपरूपं करिष्याम इति हेतोस्तैर्दीपाः प्रवर्तिताः, ततः प्रभृति दीपोत्सवः संवृत्तः, कार्तिक शुक्ल प्रतिपदि च श्रीगौतमस्य केवलमहिमा देवैश्चके अतस्तत्रापि जनप्रमोदः, नन्दिवर्द्धननरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शोकाः सन् सुदर्शनया भगिन्या सम्बोध्य सादरं खवेश्मनि द्वितीयायां भोजितः, ततो भ्रातृद्वितीया पर्वरूढिः ॥ १२८ ॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy