SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अत्थो ॥ १ ॥ तन्निदानं ' को जानाति मायोपमान् गीर्वाणानिन्द्रयम वरुण कुबेरादीन्' इत्यादीनि तन्निषेधकानि, 'स एष यज्ञायुधी यजमानोऽअसा खर्लोकं गच्छतीत्यादीनि तद्व्यवस्थापकानि, यज्ञायुधीति यज्ञ एव दुरितदारकत्वादायुधं यस्य, तत्र प्रत्युत्तरं सन्ति देवा मत्प्रत्यक्षत्वाद् भवद्भवतोऽपि आगमात्सन्त्येव, मायोपमत्वं सर्वथाऽनित्यत्वमेव न तु देवप्रतिषेधावेदकम् ॥ इति सप्तमो मौर्यपुत्रः ॥७॥ किं मन्ने नेरइआ, अत्थि नत्थि त्ति संसओ तुज्झ । वेयपयाण य अत्थं, न याणसी तेसिमो अत्थो ॥ १ ॥ तन्निबन्धनं 'न ह वै प्रेत्य नरके नारकाः सन्ती' त्यादि, तथा 'नारको वै एष जायते यः शूद्रान्नमश्नातीत्यादि, तत्र न ह वै प्रेत्येत्यादौ नारकाभावः शङ्कयते भवता तदयुक्तं यतोऽयमर्थः - न खलु प्रेत्य - परलोके मेर्वादिवत् शाश्वताः केचनाप्यवस्थिता नारकाः सन्ति, किन्तु य इहोत्कृष्टं पापमर्जयति, स इतो गत्वा प्रेत्य नारको भवत्यतः केनापि तत्पापं न विधेयम्, येन प्रेत्य नारकैर्भूयते इति, शेषं तु सुबोधमेव ॥ इति अष्टमोऽकम्पितः ॥८॥ किं मन्नि पुन्नपावं, अत्थि नत्थि त्ति संसओ तुज्झ । वेयपयाण य अत्थं, न याणसी सिमो अत्थो ॥ १ ॥ एतन्निदानं 'पुरुष एवेदं निं सर्व' मित्यादि 'पुण्यः पुण्येने 'त्यादि तत्रोत्तरं प्राग्वत् ॥ इति नवमोऽचलभ्राता ॥ ९ ॥ किं मन्ने परलोगो, अत्थी नत्थि त्ति संसओ तुज्झ । वेयपयाण य अत्थं, न याणसी तेसिमो अत्थो ॥ १ ॥ 'विज्ञानघन एवैतेभ्यो भूतेभ्यो' इत्यादिनिषेधकं 'नारको वै एष जायते' इत्यादि व्यवस्थापकं उत्तरं प्राग्वत् ॥ इति दशमो मेतार्यः १० ॥ किं मन्ने निवाणं, अत्थी नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं, न - याणसी तेसिमो अत्थो ॥ १ ॥ अत्र वेदपदानि - 'जरामर्य वा यदग्निहोत्रं' तथा 'सैषा गुहा दुरवगाहा' तथा 'द्वे
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy