SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥११९॥ दिति यक्तिश्च तत्र भगवानाह-पुरुषः खल्विह जन्मनि खभावेन माईवार्जवादिगुणयुक्तो मनुष्यनामकर्म बद्धा मृतः। किरणाप सन् पुरुषत्वमश्नुते न तु नियमत, एवं पशवोऽपि, जीवगतिविशेषस्य कर्मायत्तत्वात्, तथा गोमयादिप्रभववृश्चिकादिकार्यवैसदृश्यमपि ॥ इति पञ्चमः सुधर्मा ॥ ५ ॥ किं मन्नि बंधमुक्खो, अत्थि नत्थि ति संसओ तुन । वेयपयाण य अत्यं, न याणसी तेसिमो अत्थो ॥१॥ वेदपदानि च-'स एष विगुणो विभुर्न बध्यते संसरति वा न मुच्यते मोचयति वा न वा एष बाखं अभ्यन्तरं वा वेद' इत्यादि, तथा 'न ह वै सशरीरस्य प्रियाप्रिययोरप्रतिहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत' इत्यादि, तत्र स एषोऽधिकृतो जीवो विगुणः-सत्त्वादिगुणरहितो विभुः-सर्वगतो न बध्यते-पुण्यपापाभ्यां न युज्यते, संसरति वेत्यत्र नेत्यनुवर्त्तते, न मुच्यते-कर्मणा न वियुज्यते बन्धाभावात्, नाप्यन्यं मोचयत्यकर्तृकत्वात्, न वा एष बासं-आत्मभिन्नं महदहकारादि अभ्यन्तरं-खरूपमेव वेदेति-जानाति प्रकृतिधर्मत्वाद् ज्ञानस्येति बन्धमोक्षानुपपत्तिः। तथा न ह वै से'त्यादि तत्र न ह-नैवेत्यर्थः, सशरीरखेति-बायाध्यात्मिकशरीरवतः प्रियेत्यादि सुखदुःखाभावोऽस्ति, अशरीरं वा वसन्तमिति-मुक्तं प्रियाप्रियेसुखदुःखे इत्यादीनि मोक्षसद्भावावेदकानि, ततः कथं निश्चयेन बन्धमोक्षाविति तन्मतिस्तत्र भगवानाह-स एषेत्यादि विगुणो-विगताश्छामस्थिकज्ञानादिगुणा यस्य विभुः-केवलज्ञानात्मना सर्वगतः न बध्यते मिथ्यादर्शनादि ॥१९॥ कारणाभावान्मनुष्यादिभवेषुन संसरतीत्यादीन्यपि मुक्तात्मखरूपनिवेदकानि न तु बन्धाद्यभावावेदकानि ॥ इति षष्ठो र मण्डितः ॥ ६॥ किं मन्नि अत्थि देवा, उदाहु नत्थि त्ति संसओ तुझ । वेयपयाण य अत्थं, न याणसी तेसिमो
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy