SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र योगदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वादात्मा विज्ञानघनः प्रतिप्रदेशमनन्तविज्ञानपर्यायसवातात्मकत्वात्, स एवै॥११७॥ | तेभ्यो भूतेभ्यः क्षित्युदकादिभ्यः कथञ्चिदुत्पद्येति, घटविज्ञानपरिणतो हि आत्मा घटाद् भवति तद्विज्ञानस्य सापेक्षत्वात् अन्यथा निरालम्बनतया मिथ्यात्वप्रसक्तेः, एवं सर्वत्र भाव्यम् । पुनस्तान्येवेत्यादि तेषु भूतेषु व्यवहितेप्वपगतेषु चात्मापि तद्विज्ञानघनात्मनोपरमतेऽन्यविज्ञानात्मनोत्पद्यते यदि वा सामान्यरूपतयाऽवतिष्ठते इति, न | प्रेत्य संज्ञास्ति-न प्राक्तनीघटादिसंज्ञाऽवतिष्ठते साम्प्रतविज्ञानोपयोगनिन्नितत्वादिति जीवसत्ता । 'तथा स वै अय|मात्मा ज्ञानमयः' इत्यादि, 'ददद दमो दानं दया इति दकारत्रयं यो वेत्ति स जीवः' इत्यादिनापि तथा विद्यमान|भोक्तृकमिदं शरीरं भोग्यत्वादोदनादिवदित्यायनुमानेनापि, तथा क्षीरे घृतं तिले तैलं, काठेऽमिः सौरभं सुमे । चन्द्रकान्ते सुधा यद्-तथात्माङ्गगतः पृथक् ॥ ५९॥ अतोऽस्ति जीवः । ततः-'छिन्नंमि संसयंमी, जिणेण जरमरणविप्पमुकेणं । सो समणो पपइओ, पंचहिं सह खंडिअसएहिं ॥६०॥ ततः उपजए वा विगमए वा धुवए वेति |त्रिपदीमवाप्य द्वादशाङ्गी स विहितवान् ॥ इति प्रथमगणधरः॥१॥ तं च प्रत्रजितं श्रुत्वा, दध्यौ तद्वान्धवोऽपरः। अपि जातु द्रवेदद्रि-वलेजलमपि क्वचित् ॥ १॥ मृगाङ्कमण्डलाजातु, जायतेजारवर्षणम् । वहेरपि भवे युवों, ज्वालाः प्रालेयशीतलाः ॥२॥ पीयूषादपि मृत्युः स्या-जीवितव्यं विषादपि । चलेत्कुलाचलौषोऽपि, स्या|| द्वायुरपि निश्चलः ॥ ३॥ स्याद्यत्यासोऽपि रोदस्योः, शुष्येन्नीराकरोऽपि हि । पतेज्योतिर्गणोऽप्येष, भूर्वा पाताल-|| माविशेत् ॥४॥ मेरुरप्युधियेतात्र, हारयेन तु बान्धवः । अश्रद्धया पुनव्यक्त्या, पप्रच्छ स खयं जनान् ॥५॥ ॥११७॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy