________________
कल्पसूत्र०
किरणाव
॥११४॥
भागी तं तं कालं मणवयणकायजोगे वहमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ ॥ १२१॥ व्याख्या-तएणं समणे भगवं महावीरे अरहत्यादे॥णमाणे पासमाणे विहरइ त्ति पर्यन्तम् , तत्र अर्हन्-अशोकादिमहापूजार्हत्वात् अरिहेत्यादि कचित् तत्रारीन् रागादीन् हन्तीत्यादि पूर्वमिव जाए जातः-सम्पन्नः जिनोरागादिजेता केवलानि-परिपूर्णानि शुद्धान्यनन्तानि वा ज्ञानादीनि विद्यन्ते यस्यासौ केवली अत एव सर्वज्ञ-एकस्मिन् समये विशेषावबोधवान्, सर्वदर्शी-द्वितीयसमये सामान्यावबोधवान् , सदेवमनुजासुरस्य लोकस्य पर्याय जातावेकवचनमिति पर्यायानुत्पादव्ययलक्षणान् जानाति ज्ञानेन पश्यति च दर्शनेन, न च पर्यायानित्येवोक्ते द्रव्य न जानातीति शङ्कावकाशः, उत्पादव्यययोनिराधारयोरनुपपत्तेस्तयोाने तदविष्वग्भावेन वर्तमानमन्वयिद्रव्यमपि ज्ञातमेव, अत एवाह-सर्वलोकवर्त्तिनां सर्वजीवानां आगति-यतः स्थानादागच्छन्ति जीवा विवक्षितमास्पदं, गतियत्र मृत्वोत्पद्यन्ते, स्थिति-कायभवस्थितिभेदेन द्विविधामपि, च्यवनं-देवलोकान्मनुष्यतिर्यश्ववतरणं, उपपाद-देवनारकाणां जन्म, तेषां जीवानामिदं तत्कं-तदीयं, मनः-चित्तं, मानसिकं-चित्तगतं चिन्तारूपापन्नपुद्गलजातं, यद्यपि मनो मनोगतयोर्नास्ति वास्तवो भेदस्तथापि व्यवहारनयानुसरणादस्त्येव भेदस्तथा च वक्तारो भवन्ति ममेदं मनसि वर्त्तते इति, भुक्तमशनपुष्पादि, कृतं चौर्यादि, प्रतिसेवितं प्रतिषेवितं वा मैथुनादि, आविष्कर्म प्रकटकृतं, रहःकर्म प्रच्छन्नकृतं जानाति पश्यति चेति 'डमरुकमणि'न्यायेनात्रापि सम्बध्यते । अरहा प्राग्वत्, अरहस्संभागी-न रह
॥११॥