________________
कल्पसूत्र०
किरणाव
॥११३॥
म्याख्या-तस्सणं भगवंतस्स अणुत्तरेणं नाणेणमित्यादितो नाणदंसणे समुप्पन्ने इत्यन्तम्, तत्र ज्ञानेन-मत्या- दिचतुष्टयेन, दर्शनेन-चक्षुर्दर्शनादिना सम्यक्त्वेन वा, चारित्रेण-महाव्रतादिना, आलयेन-च्याद्यसंसक्तवसत्यादिना, विहारेण-देशादिषु चक्रमणादिना, वीर्येण-विशिष्टोत्साहेन, आर्जवेन-मायानिग्रहेण, मार्दवेन-माननिग्रहेण, लाघवेन-क्रियासु दक्षत्वेन, अथवा लाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागस्तेन, क्षान्स्या-क्रोधनिग्रहण, मुक्त्या-निर्लोभतया, गुत्तीए इत्यपि क्वचित् तत्र गुप्त्या मनोगुप्त्यादिकया, तुष्टया-मनःप्रह(स)त्या, 'सत्यसंयमतपःसुचरितसोपचितफलनिर्वाणमार्गेण' सत्सं-सूनृतं, संयमः-प्राणिदया, तपो-द्वादशभेदं, तेषां सुष्टु-विधिवत् चरितंआचरणं, उपचयनमुपचितं सहोपचितेन-उपचयेन वर्तते यत्तत् सोपचितं, सत्यसंयमतपःसुचरितेन सोपचितंस्फीतं फलं मुक्तिलक्षणं यस्य स तथा स चासौ निर्वाणमार्गश्च-रत्नत्रयलक्षणस्तेन आत्मानं भावयतो-वासयतः अ|नेनात्मज्ञानमेव मोक्षस्य प्रधानं साधनमित्युक्तम् । दुवालससंवच्छराई ति द्वादशसंवत्सरव्यतिक्रमणं त्वेवम्-"नव
किर चाउम्मासे, छकिर दो मासिए उवासी । बारस य मासिआई, बावत्तरि अद्धमासाई ॥१॥ एग किर छMम्मासं, दो किर तेमासिए उवासी । अड्डाइजाइ दुवे, दो चेव दिवडमासाई॥२॥ भई च महाभई, पडिम
तत्तो अ सबओभई । दो चत्तारि दसेव य, दिवसेठासी अणुबद्धं ॥३॥ गोयरअभिग्गहजुयं, खमणं छम्मा[सियं च कासीय । पंचदिवसेहि ऊणं, अवहिओ वच्छनयरीए ॥४॥ दस दो य किर महप्पा, ठाइ मुणी एगराइयं पडिमं । अहमभत्तेण जई इकिक चरमराईयं ॥५॥ दो चेव य छठ्ठसए, अउणत्तीसे उवासिओ भयवं । न
॥११३॥