SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ किरणाव कल्पसूत्र ॥११२॥ उनमिव्यक्तक्रोधमानखरूपेऽप्रीतिमात्रे, अथवा रागः-सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधनेऽप्यभिमते वि.. षये गर्द्धः प्रेम तस्मिन् , द्वेषो-दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वाऽप्रीतिस्तत्र, कलहे-ऽसभ्यवचनराध्यादौ, अभ्याख्याने-सदोषाविष्करणे, पैशून्ये-प्रच्छन्नमसदोषाविष्करणे, परपरिवादे-विप्रकीर्णपरगुणदोषवचने, अरतिमोहनीयोदयाञ्चित्तोद्वेगफलाऽरतिः रतिमोहोदयाञ्चित्ताभिरती रतिः समाहारेऽरतिरतिनि, मायामृषे मायामोषे वा-वेषान्तरभाषान्तरकरणेन परवञ्चनं माया मायया सह मृषा मायामृषा मायया वा मोषः परेषां मायामोपस्तस्मिन् , मिथ्यादर्शनं-मिथ्यात्वं शल्यमिवानेकदुःखहेतुत्वात् । एवममुना प्रकारेण तस्य भगवतो न भवति प्रतिबन्ध इति प्रकृतम् ॥ ११८ ॥ से णं भगवं वासावासवजं अट्ठगिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए वासीचंदणसमाणकप्पे समतिणमणिलेडुकंचणे समसुहदुक्खे इहलोगपरलोगअप्पडिबद्धे जीवियम रणे निरवकंक्खे संसारपारगामी कम्मसन्तुनिग्घायणट्टाए अब्भुटिए एवं च णं विहरइ ॥ ११९ ॥ ___ व्याख्या से णं भगवं वासावासवजमित्यादितो विहरइ त्ति पर्यन्तम्, तत्र वर्षासु-प्रावृषि वासो-वर्षावासः |तद्वर्ज अष्टमासान् ग्रीष्महेमन्तिकान्, ग्रामे एकरात्रो वासमानत्वेनास्ति यस्य स एकरात्रिकः, एवं नगरे पञ्चरात्रिकः, वासीचन्दनयोः प्रतीतयोः अथवा वासीचन्दने इव वासीचन्दने अपकारकोपकारको तयोः समानो-निद्वेषरागत्वात् कल्पो-विकल्पः समाचारो वा यस्य, समानि-तुल्यान्युपेक्षणीयतया तृणादीनि यस्य समसुहदुक्खे ॥११२॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy