SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ हग इव विप्रमुक्तो-मुक्तपरिकरत्वादनियतवासाच, भारण्डपक्षीवाप्रमत्तो निद्राधभावात्, भारण्डपक्षिणोः किलैक कलेवरं पृथग्ग्रीवं त्रिपादं च स्यात् यदुक्तम्-"भारण्डपक्षिणः ख्याता-त्रिपदा मर्त्यभाषिणः। द्विजिह्वा द्विमुखाश्चैको-दराभिन्नफलैषिणः ॥१॥" तो चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते, अतस्तदुपमा, कुञ्जर इव सो(शौ)ण्डीरःकर्मशत्रुसैन्यं प्रति शूरः, वृषभ इव जातस्थामा-खीकृतमहाव्रतभारवहनं प्रति जातबलो निर्वाहकत्वात्, सिंह इव दुर्द्धर्षः परीषहादिमृगैरनमिभवनीयत्वात्, मेरुरिवानुकूलप्रतिकूलोपसर्गवातैरविचलितसत्त्वः, सागर इव गम्भीरो हर्षशोकादिसाधनसम्बन्धेऽप्यविकृतचित्तत्वात्, चन्द्र इव सोमलेश्यः परोपतापकृन्मनःपरिणामरहितत्वात्, सूर इव दीसतेजा द्रव्यतो देहदीप्त्या भावतो ज्ञानेन परेषां क्षोभकत्वाद्वा, जात्यकनकमिव जातं-सम्पन्नं रूपं-खरूपं रागादिकुद्रव्यविरहाद् यस्थापगतदोषरूपकुद्रव्यत्वेनोत्पन्नखभाव इत्यर्थः, वसुन्धरेव सर्वान् शीतोष्णादीननुकूलतरान् स्पर्शान् विषहते यः सुहूतो-घृतादितर्पितः स चासौ हुताशनश्चाग्निश्च तद्वत्तेजसा-ज्ञानेन तपसा वा ज्वलन्-दीप्यमानः । नास्त्ययं पक्षो यदुत तस्य भगवतः कुत्रचित्प्रतिबन्धो भवति, क्षेत्रं-धान्यजन्मभूमिः, खलं-धान्यमलपवनादिस्थण्डिलं, नमः-आकाशं, समयः-सर्वनिकृष्टकालः उत्पलपत्रशतव्यतिभेदजरत्पटशाटिकापाटनादिदृष्टान्तसाध्यः, आवलिका-ऽसङ्ख्यातसमयरूपा, आणापाणू-उच्छासनिःश्वासकालः, स्तोकः-सप्तोच्छासमानः, क्षणो-बहुतरोच्छुसरूपः, लवः-ससस्तोकमानः, मुहूर्तो-लवसप्ततिमानः, अन्यतरस्मिन् दीर्घकालसंयोगे-युगपूर्वादो, भये-इह लोकादिभेदात् सप्सविधे, हासे त्ति हास्ये हर्षे वा, पिजे ति अनभिव्यक्तमायालोभखभावे अभिष्वङ्गमात्रे प्रेमणि, द्वेष SASARA
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy