SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ किरणाव० कल्पसूत्र ॥११॥ +5+ + + इत्यादि, मनःप्रभृतीनां कुशलानां प्रवर्तक इत्यर्थः चित्तादीनामशुभानां निषेधकः, यतः समितिः-सत्प्रवृत्तिः, गु. प्तिस्तु-निरोधः, अत एव गुप्तत्वात् गुर्तिदिए गुत्तबंभयारी त्ति गुप्तानीन्द्रियाणि शब्दादिषु रागद्वेषाभावात् श्रोत्रा दीनि, ब्रह्मचर्य-मैथुनविरतिरूपं वसत्यादि नवगुप्तिमचरति-आसेवते इत्येवंशीलो यः स तथा, अक्रोध इत्यादि & व्यक्तम् , अत एव शान्तोऽन्तवृत्त्या, प्रशान्तो बहिवृत्त्या, उपशान्त उभयतः, अथवा मनःप्रभृत्यपेक्षया शान्ता दीनि पदानि, अत एव परिनिर्वृतः-सकलसन्तापवर्जितः, अनाश्रवो-ऽपापकर्मबन्धो हिंसादिसप्तदशाश्रवनिवृत्तेः, अमम-आभिष्वङ्गिकममेतिशब्दविरहितो, किञ्चनो-निद्रव्यः, छिन्नग्रन्थो-मुक्तहिरण्यादिग्रन्थः, छिन्नसोए त्तिकचितत्र छिन्नशोकः छिन्नश्रोता वा छिन्नसंसारप्रवाह इत्यर्थः, निरुपलेपो द्रव्यभावमलरहितस्तत्र द्रव्यतो विमलवपुर्भावतो मिथ्यात्वादिमलरहितः, निरुपलेपत्वमेवोपमानैराह-कांस्यपात्रीव मुक्तं-त्यक्तं तोयमिव तोयं-बन्धनिबन्धनत्वात् स्नेहो येन, शक इव निरजनोऽथवा रजनं रङ्गणं वा-रागाधुपरञ्जनं तस्मान्निर्गतः, जीव इवाप्रतिहतगतिः-सर्वत्रौचित्येनास्खलितविहरणात्संयमेऽप्रतिहतवृत्तेर्वा, गगनमिव निरालम्बनो देशग्रामकुलायालम्बनरहितत्वात् , वायुरिवाप्रतिबद्धः-क्षेत्रादौ प्रतिबन्धवन्ध्यत्वेनौचित्येन निरन्तरविहारित्वात्, शारदसलिलमिव शुद्धहृदयः कालुण्याऽकलकितत्वात्, पुष्करं-पनं तस्य पत्रमिव निरुपलेपः पङ्कजलकल्पखजनविषयलेहराहित्यात्, कूर्मः-कच्छपः स इव गप्लेन्द्रियः स हि कदाचिद् ग्रीवाचरणचतुष्टयरूपाङ्गपञ्चकेन गुप्तो भवेत् एवं भगवानपीन्द्रियपञ्चकेन, खगो-गण्डकाख्यो जीवविशेषस्तस्य विषाणं-शृङ्गमेकमेव स्यात्तद्वदेको जात एकजात-एकभूतो रागादिसहायासहितत्वात् , वि BAS* + %A ॥११॥ 4 %
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy