________________
कल्पसूत्र ०
॥१०९॥
क्षत्रियेण क्रियमाणा उपसर्गाः प्रियपृच्छार्थमागतेन सनत्कुमारेण निवारिताः, ततो नन्दिग्रामे पितृसखा वन्दते, मिण्डिकग्रामे गोपोपसर्ग शक्रो वित्रासनेन निवारितवान् ततः कौशाम्ब्यां गतः तत्र शतानीकराजा, मृगावती देवी, विजया प्रतीहारी, तथा वादी नाम धर्म्मपाठकः, सुगुप्तोऽमात्यः, तद्भार्या नन्दा, सा च श्राविका मृगावत्या वयस्था, खामिना तत्र पोषबहुलप्रतिपद्यभिग्रहो जगृहे, यथा- द्रव्यतः कुल्माषान् सुकोणेन १, क्षेत्रतो देहल्या एकं पदमारतः एकं च परतः कृत्वा २, कालतो निवृत्तेषु भिक्षाचरेषु ३ भावतो राजसुता दासत्वमापन्ना निगडिता | मुण्डितमस्तका रुदत्यष्टमभक्तिका चेत् दास्यति तदा गृहीष्यामीति ४ परीषहसहनार्थं खामिनोऽभिग्रहः, ततो गोचर्या हिण्डन् पञ्चदिवसोनवण्मासोपवासी दैवयोगात् धनावह श्रेष्ठिभार्या मूला गृहस्थितया चम्पेशदधिवाहन नृप - धारणीराज्ञीसुतया वसुमत्या चन्दनबालापनाच्या खामी प्रतिलाभितः, कविश्वात्र – “ चन्दना सा कथं नाम, बालेति प्रोच्यते बुधैः । मोक्षमादत्त कुल्माषै - महावीरं प्रतार्य या ॥ १ ॥” ततः पञ्चदिव्यानि देवा ननृतुः १ केशाः शिरसि सञ्जाताः २ निगडानि च नूपुराणि ३ देवैश्च चन्दनशीतलत्वाच्चन्दनेति तस्या नामाकारि ४ लोभाद्राजानं वसुधारां गृह्णानं शक्रो निवार्य प्राह - 'यस्येयं दास्यति तस्यैषा' ततः सा धनावह श्रेष्ठिनं स्वपितृतुल्यं समर्पयामास ५ शक्रः शतानीकं प्रत्युक्तवान् 'सङ्गोप्यैषा यावत्स्वामिनः केवलोत्पत्तिस्तदनन्तरं खामिनः प्रथमशिष्यणी भविष्यतीति । ततः सुमङ्गलग्रामे सनत्कुमारेन्द्रवन्दनं, वालुकमामे वायलवणिग्यात्रायां गच्छन् खामिनं दृष्ट्वाऽमङ्गलधियाऽसिना घाताय धावन् सिद्धार्थेन हतः, ततः खामी चम्पायां खातिदत्तद्विजस्याग्निहोत्रशालायां वर्षावासं तस्थौ, रात्रौ च
किरणाव०
॥१०९॥