SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्रनष्टकान्तिप्राग्भारो-उद्भिः स्पृष्ट इव दर्पणः॥४॥ भ्रष्टप्रतिज्ञो मन्दाक्ष-मन्दीभूताक्षिपङ्कजः । देवराजाधिष्ठि-18 तान्तां, सुधर्मामाययौ सभाम् ॥ ५॥ युग्मम् ॥ शक्र सङ्गमकं दृष्ट्वा, सद्यो भूत्वा पराङ्मुखः । इत्यूचे भोः सुराः सर्वे-ऽप्याकर्णयत मद्वचः ॥ ६ ॥ अयं हि कर्मचाण्डालः, पापः सङ्गमकामरः। दृश्यमानोऽपि पापाय, तद्रष्टुं |नैष युज्यते ॥ ७॥ बहनेनापराद्धं हि, यत्स्वामी नः कदर्थितः। अस्मत्तोऽपि न किं भीतो, भवागीतो न यद्ययम् ४॥८॥ अर्हन्तो नान्यसाहाय्यात्, तप्यन्ते तप इत्यहम् । तथोपसर्गकालेऽपि, नामुं पापमशिक्षयम् ॥९॥ अतः परमिह तिष्ठ-नस्माकमपि पाप्मने । निर्वासनीयस्तदसौ, कल्पादस्मात्सुराधमः ॥१०॥ इत्युक्त्वा तं वज्रपाणिवज्रेणेव शिलोच्चयम् । जपान वामपादेन, सुराधमममर्षणः ॥ ११॥ पर्यस्यमानो विविधा-युधैर्माघवतै टैः । आक्रोश्यमानस्त्रिदिव-स्त्रीभिर्मोटितपाणिभिः ॥ १२॥ सामानिकहस्खमानो, जानकाख्यविमानतः । सशेषेकार्णवायुष्को, मेरुचूलां सुरो ययौ ॥ १३ ॥ महिष्यः सङ्गमकस्य, शक्रमेवं व्यजिज्ञपन् । खनाथमनुगच्छामः, त्वदादेशो भवेद्यदि ॥ १४ ॥ अन्वगन्तुं सङ्गमक, दीनास्या अम्वमस्त ताः । अवारयत्परीवार-मशेषमपि वासवः ॥१५॥ इति । तत आलभिकायां हरिकान्तः श्वेताम्बिकायां हरिसहश्च प्रियं प्रष्टुमेतः, ततः श्रावस्त्यां शक्रः स्कन्दप्रतिमायामवतीर्य स्वामिनं वन्दितवान् , ततो महती महिमाप्रवृत्तिः, ततः कौशाम्न्यां चन्द्रसूर्यावतरणं वाणारस्यां च शकः राजगृहे ईशानः मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छति स्म, ततो वैशाल्यामेकादशमो वर्षारात्रोऽभूत्, तत्र भूतः प्रियं पृच्छति । ततः सुसुमारपुरे गतः, तत्र चमरोत्पातः, ततो भोगपुरे खजूरीसकण्टककम्बाभिर्महेन्द्र
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy